This page has not been fully proofread.

११४
 
सौन्दर्यलहरी सब्याख्या
त॒दे॒षाऽभ्यु॑क्ता । अ॒पा रस॒मुद॑य सन् ।
सूर्ये' शु॒क्रस॒माभृ॑तम् । अ॒पा ँ रस॑स्य॒ यो
रसः । तं वो गृह्णाम्युत्तमम् । इति ।
 
1
 
ऋचोऽयमर्थः - अपां रसं चन्द्रं उदयंसन्, योगीश्वराः प्राप्नुवन्नित्यर्थः । सूर्ये
सूर्यमण्डले शुक्रं अमृतं: समाभृतं सम्यक् आसमन्तात्पूरितम् । चन्द्रमण्डल.
गलत्पीयूषधाराभिरेव सूर्यस्य निर्वाह इत्यर्थः । अपां रसस्य पुष्परूपस्य
चन्द्रमसः, यो रसः बैन्दवस्थानस्थितः ' नित्यकलात्मकः, तं नित्यकलात्मकं रस
वः युष्मत्सकाशात् । उदकानां प्रस्तुतत्वात् वः इति उदकानामाभिमुख्यं
मणिपूरे उदकमुत्पन्नमिति । ता आपः स्वाधिष्ठानाग्नेः उत्पादिकाः, आज्ञा-
चक्रस्थितस्य चन्द्रस्य उत्पादिकाः, अनाहत चक्रोपरिस्थितसूर्यस्त्रापि उत्पादिकाः।
अत उक्तं 'तं वो गृह्णाम्युत्तमम्' इति । तं उत्तमं चन्द्रं सहस्रकमलस्थितं
वः सकाशात् जानामीत्यर्थः ॥
 
अस्मिन्नेव अनुवाके-
योप॑सु॒ नाव॑ प्रतिष्ठितां वेद॑ । प्रत्ये॒व ति॑िष्ठति । *
 
इति श्रुतम् । अप्सु उदकतत्त्वात्मके मणिपूरे प्रतिष्ठितां नावं श्रीचक्रा-
त्मिकाम् ॥
 
तथा च श्रुत्यन्तरम् -
 
-
 
सु॒त्रामा॑णं पृथि॒वींद्याम॑ने॒हस सु॒शर्मा -
ण॒मदि॑ति सुप्रणीतम् । देवीं नाव स्वर-
त्रामना॑गस॒मस्र॑वन्ती॒मारु॑हेमा स्व॒स्तये॑ ॥
 
+ तै. सं. १-५-११.
 
* तै. आ. १-२२.
 
2
 
'इत्युक्तकलात्मतया तं वो गृह्णाम्युत्तममित्यधिकम् बेद.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri