This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
११३
 
तानि जगन्ति पुनः प्रसन्नायाः भगवत्या एव कृपारसपूरिता दृष्टिः मणिपूर-
प्रतिपादिता शिशिरोपचारं रचयतीति स्तुतिमात्रं, न वस्तुत इति ॥ ३९ ॥
 
तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया
स्फुरनानारत्नाभरणपरिणद्धेन्द्रधनुषम् ।
तव श्यामं मेधं कमपि मणिपूरैकशरणं
 
निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् ॥ ४० ॥
 
-
 
तटिवन्तं तटित् सौदामिनी सा अस्यास्तीति तटित्त्वान् तं,
शक्त्या तटिदूपया, तिमिरपरिपन्थिस्फुरणया तिमिरस्य मणिपूरगतस्य-
मणिपुरचक्रं तामिस्रलोक इति प्रागुक्तः – तस्य परिपन्थि विरोधि स्फुरणं
यस्यास्सा । अनेन स्थिरसौदामिनीत्वं भगवत्याः सूचितम् । इदमपि मेघस्य
प्रावृषेण्यत्वसूचकं विशेषणम्। स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषं स्फुरन्ति
च तानि रत्नानि नानाविधानि तैः निर्मितानि आभरणानि भूषणानि तैः
परिणद्धं निर्मितं इन्द्रधनुः यस्य तम् । 'वा संज्ञायाम्' इति नानडू ।
नानविधरत्नकान्तिसंवलिता स्थिरसौदामिनी इन्द्रचापभ्रान्ति जनयतीति
प्रावृषेण्यत्वे हेत्वन्तरम् । यथोक्तं सिद्धघुटिकायाम्-
मणिपूरैकवसतिः प्रावृषेण्यः सदाशिवः ।
अम्बुदात्मतया भाति स्थिरसौदामिनी शिवा ॥ इति ॥
 
तव भवत्याः, श्यामं श्यामवर्ण, मेघं मेघात्मना अवस्थितं पशुपतिं,
कमपि इयत्तया निर्देष्टुमशक्यं मणिपूरैकशरणं मणिपूरमेव एकं शरण
गृहं यस्य तम् । मणिशब्देन मणिधनुरुच्यते, मणिधनुस्वरूपत्वात् भगवत्याः,
तया पूर्यते शरणं मणिपूरमिति रहस्यम् । निषेवे नितरां सेवे ।
 

 
वर्षन्तं वृष्टिं
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri