This page has not been fully proofread.

एकोनचत्वारींश: श्लोकः
यथोक्तं भगवत्पादैः सुभगोदयव्याख्याने-
शिखिज्वालारूप: समय इह सैवात्र समया
तयोस्सम्भेदो मे दिशतु हृदयाब्जैकनिलयः ॥
 
इति । एतदेव अस्माकमपि अभिमतम् ॥ ३८ ॥
तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं
तमीडे संवर्त जननि महतीं तां च समयाम् ।
यदालोके लोकान् दहति महति क्रोधकलिते
दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥ ३९ ॥
 
तव भवत्याः, स्वाधिष्ठाने स्वाधिष्ठानचक्रे, हुतवहं अभितत्त्वं,
अधिष्ठाय, आश्रित्य निरतं, अनवरतं तं प्रसिद्धं, ईडे स्तुवे, संवर्त
संवर्तनामकं अग्निं, जननि ! हे मातः ! महतीं महच्छब्दवाच्यां, तां
संवर्ताग्निरूपामित्यर्थः, समयाम् । यदालोके दर्शने, लोकान्, भूरादीन्
दहति सति, महति क्रोधकलिते, दयाद्री कृपाविष्टा, या दृष्टि: आलोकः,
शिशिरं शीतलं, उपचारं रचयति ॥
 
अत्रेत्थं पदयोजना – हे जननि ! तव स्वाधिष्ठाने हुतवहं संवर्तमधिष्ठाय
निरतं तं ईडे, समयां तां महतीं च ईडे। महति, क्रोधकलिते यदालोके
लोकान् दहति सति या दयाद्री दृष्टिः शिशिरमुपचारं रचयति सा त्वदीया
दृष्टिरिति शेषः ॥
 
अत्रेदमनुसन्धेयम्-स्वाधिष्ठानं अग्नितत्त्वोत्पत्तिस्थितम् । तत्र उत्पन्नं
अ संवतिया आरोप्य तत्रैव महासंवर्ताग्निज्वालाकारशक्तिरूपतया
अवस्थिता शक्तिः संभाव्या । ततः तयोः आलोकेन जगन्ति दग्धानि ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri