This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
समुन्मीलत्संवित्कमलमकरन्दैकरसिकं समुन्मीलत् विकसत् संवित्
ज्ञानं, तदेव कमलं, तत्र मकरन्दः पुष्परसः, स चासौ एकश्च, न च
एकशब्दस्य पूर्वनिपातः, 'विशेषणं विशेष्येण बहुलम्' इति परनिपातात्, यद्वा
एकश्चासौ रसिकश्चेति एकरसिकः, मकरन्देन एकरसिकः इति पश्चात् समासः,
तं तथोक्तम् । परमहंसस्वरूपयोः शिवयोः हंसत्वारोपणं संविदः कमलत्वारोपणे
निमित्तम् । अतः संविदः कमलत्वे सिद्ध एकदेशरूपेण मकरन्देन चर्व्य-
माणतैकप्रमाणो रस आरोप्यतें । अत एव मकरन्दैकशब्दस्य तृतीयासमासः ।
भजे सेवे । हंसद्वन्द्वं किमपि अनिर्वाच्यं इदन्तया निर्देष्टुं अशक्यं
षड्डिशं तत्त्वं शिवशक्तिसंपुटितं, महतां योगीश्वराणां, मानसचरम् । अत्र
मानसशब्देन मनसि मानससरस्त्वं आरोप्यते, मानससरसि हंसानां नित्य-
वासात् । यदालापात् यस्य हंसद्वन्द्वस्य आलापात्, अष्टादशगुणित-
विद्यापरिणतिः अष्टादशविद्याः आलापरूपेण परिणता इत्यर्थः । यत्
हंसद्वन्द्वं, आदत्ते गृह्णाति । दोषात्-ल्यब्लोपे पञ्चमी, दोषं अवयुत्य
गुणं गुणशब्दो दोषाभावस्याप्युपलक्षकः, गुणवत् दोषभावस्यापि ग्राह्यत्वात् ।
अखिलं— समस्तं, अद्भयः उदकेभ्यः, पय इव दुग्धमिव ।
 
1
 
-
 
अत्रेत्यं पदयोजना — हे भगवति । समुन्मीलत्संवित्कमलमकरन्दै -
करसिकं महतां मानसचरं किमपि हंसइन्द्रं भजे; यदालापात् अष्टादश-
गुणितविद्यापरिणतिः, यत् दोषात् अखिलं गुणं अद्भयः पय इव आदत्ते ॥
 
अत्रेदमनुसन्धेयम् – संवित्कमलं अनाहत चक्रनामकमिति पूर्वमेवोक्तम् ।
उपासकाः परमहंसमिथुनं संवित्कमले उपासते इति समयैकदेशिमतम् ।
अत एव महतां मानसचरमित्युक्तम् । भगवत्पादमतं तु-शिखिज्वालारूपः
परमेश्वरः शिखिन्या स्वशक्त्या संबलितः अनाहतचत्रे दीपाङ्ङ्कुरवत् प्रतिभातीति ।
 
तवेत्यधिकः.
 
2
 
2
 
परमहंसा: हंसमिथुनम्.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri