This page has not been fully proofread.

अष्टत्रिंशः श्लोकः
 
१०९
 
चक्रे आत्मतत्त्वात् उत्पन्नं आकाशतत्त्वमित्यर्थः । अत्र आत्मशब्दो मनःपर्याय-
वचनः । शिवं शिवतत्त्वं, सेवे उपासे । देवीं भगवतीम् अपिशब्दः
समुच्चये । शिवसमानव्यवसितां शिवेन समानं व्यवसितं व्यवसाय:
प्रयत्नः यस्याः तां, स्वयमपि शिव'शब्दवाच्येत्यर्थः । ययोः शिवयोः,
कान्त्याः प्रभायाः, यान्त्याः सरन्त्याः, शशिकिरणसारूप्यसरणेः चन्द्र-
किरणसादृश्यमार्गात्, विधूतान्तर्ध्वान्ता विधूतं अन्तर्ध्वान्तं अज्ञानं
यस्यास्सा, विलसति प्रकाशते । चकोरीव चकोरविहगीव, जगती
त्रिलोकी ॥
 
अत्रेत्थं पदयोजना—हे भगवति ! ते विशुद्धौ शुद्धस्फटिकविशदं
व्योमजनकं शिवं । शिवसमानव्यवसितां देवीमपि सेवे; ययोः यान्त्याः
शशिकिरणसारूप्यसरणेः कान्त्यास्सकाशात् जगती विधूतान्तवन्ता चकोरीव
विलसति ॥
 

 
अयमर्थः– यथा ज्योत्स्नापानेन चकोरी सन्तुष्टान्तरङ्गा, एवं शिवयोः
ज्योत्स्ना सदृशप्रभायाः विधूतान्तवन्तः सन्तुष्टान्तरङ्गः साधकलोकः इति ॥
अत्रेदमनुसन्धेयम् – विशुद्धिचऋपूजायां सूर्यचन्द्रनिरोधात् षोडशार-
गतानां श्रीत्रिपुरसुन्दरीप्रभृतीनां षोडशकलानां ज्वोत्स्नाशोषणात् तच्चक्रस्थि-
तयोः शिवयोरेव प्रभया ज्योत्स्नाकार्यमिति ॥ ३७ ॥
 
समुन्मीलत्संवित्कमलमकरन्दैकरसिकं
 
भजे हंसद्वन्द्वं किमपि महतां मानसचरम् ।
यदालापादष्टादशगुणित विद्यापरिणतिः
यदादत्ते दोषादगुणमखिलमयः पय इव ॥ ३८ ॥
 
1 शिवतत्वं.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri