2023-02-16 08:26:23 by ambuda-bot
This page has not been fully proofread.
सौन्दर्यलहरी सव्याख्या
रविशशिशुचीनां सूर्यचन्द्राग्नीनां अविषये अगोचरे, अत एव निरा-
लोके आलोकरहिते, अलोके विजने एकान्ते, निवसति, त्वत्सायुज्यं प्राप्येति
शेषः । हिः प्रसिद्धौ । भालोकभुवने ज्योत्स्नामये लोके सहस्रकमले ॥
१०८
अत्रेत्थं पदयोजना – हे भगवति ! तवाज्ञाचक्रस्थं तपनशशिकोटि-
युतिधरं परं शम्भु परचिता परिमिलितपार्श्व वन्दे । यं भक्त्या आराध्यन्
रविशशिशुचीनां अविषये निरालोके अलोके भालोकभुवने निवसति हि ॥
-
अत्रेदमनुसन्धेयम् – 'तवाज्ञाचक्रस्थं' इति चक्रशब्देन साधकस्य
भ्रूमध्यान्तरगतश्रीचक्रान्तर्गतशिवचऋचतुष्टयं कथ्यते । न तु हिदलं पद्म,
तवेतिपदानन्वयादिति । एवमुत्तरत्राप्यूह्यम् । अत्र स्वाधिष्ठानाग्रे अग्निमण्डलं,
अनाहत चक्राग्रे सूर्यमण्डलं, आज्ञाचक्राग्रे चन्द्रमण्डलमिति पूर्वमेव प्रतिपादि-
तम् । अतश्च अग्निसूर्यचन्द्राणां 'मयूखाः षष्ट्युत्तरत्रिशतसङ्ख्याका आधार-
चक्रप्रभृति आज्ञाचक्रपर्यन्तमेव विचरन्ति । एतदपि पूर्वमेव सम्यक् निरूपितम् ।
आज्ञाचक्रस्थितचन्द्रात् अन्य एव सहस्रकमलस्थितश्चन्द्रः श्रीचक्रात्मकः
नित्यकल इत्यपि पूर्वमेव सम्यक् निरूपितम् ॥ ३६॥
विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं
:
शिवं सेवे देवीमपि शिवसमानव्यवसिताम् ।
ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणेः
विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ ३७॥
विशुद्धौ विशुद्धिचक्रे ते भवत्याः शुद्धस्फटिकविशदं 'त्रासरहित-
स्फटिकोपलसदृशं अतिनिर्मलं व्योमजनकं व्योम्नः आकाशतत्वस्य जनकं
उत्पादकं, 'तस्माद्वा एतस्मादात्मन आकाशस्संभूतः * इत्यादिश्रुतेः । आज्ञा-
1
किरण इत्यधिकः.
2
त्रासः मण्यादिनिष्ठो दोषः इति मेदिनी. * तै. उ. २ - १
*
CC-0. Jangamwadi Math Collection. Digitized by eGangotri