This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
१०६
 
त्वयि परिणतायां परिणतिं तादात्म्यं गतायां, न हि परं इतः परं न
किञ्चिदस्तीत्यर्थः । त्वमेव स्वात्मानं स्वस्वरूपं, परिणमयितुं परिणामवन्तं
कर्तु, विश्ववपुषा प्रपञ्चरूपेण चिदानन्दाकारं चिच्छक्केः आनन्दभैरवस्य
च आकारं, शिवयुवति ! शिवयुवतिः हरपत्नी, युवतिशब्दात् 'सर्वतोsक्ति -
न्नर्थादित्येके' इति ङीप् । तस्याः सम्बुद्धिः । भावेन चित्तन, विभूषे । यद्वा-
चिदानन्दाकारं च ब्रह्मस्वरूपं शिवतत्त्वं, शिवयुवतिभावेन शिवस्य
युवतिर्जाया तस्याः भावः तत्वं तेन ॥
 
अत्रेत्थं पदयोजना - हे भगवति । मनस्त्वं व्योम त्वं मरुदसि मरु-
त्सारथिरसि त्वमापस्त्वं भूमिः । त्वयि परिणतायां परं न हि । त्वमेव
स्वात्मानं विश्ववपुषा परिणमयितुं शिवयुवति ! भावेन चिदानन्दाकारं
बिभृषे ॥
अयमर्थः–'मनस्त्वं' इत्यादि 'भूमिः इत्यन्तेन पञ्चभूतात्मकः कार्य-
रूपः परिणामो विकारः उक्तः । 'त्वयि परिणतायाम्' इत्यनेन निर्विका-
रात्मकः कारणरूपेण वस्थितिविशेषः प्रकृत्याः परिणामः उक्तः । 'न हि
परम्' इत्यनेन अपरिणामिन्याः परिणामो नास्ति अनवस्थापत्तेः इति हि
शब्दार्थः । तथोक्तं चतुश्शत्याम्-
शृणु देवि महाज्ञानं सर्वज्ञानोत्तमं प्रिये ।
 
येन विज्ञानमात्रेण भवाब्धौ न निमज्जति ॥
त्रिपुरा परमा शक्तिराद्या जाता महेश्वरि ।
स्थूलसूक्ष्मविभागेन त्रैलोक्योत्पत्तिमातृका ॥
कबलीकृतनिश्शेषतच्वग्रामस्वरूपिणी ।
 
यस्यां परिणतायां तु न किञ्चित्परमिष्यते ॥
1 अयमर्थः- कबलीकृतः आत्मन्यारोपितः कारणात्मतया अवस्थितः, यथा
 
1 कबळीकृतनिश्शेषतत्त्वप्रामस्वरूपिणीत्यस्यायमर्थः.
 
-
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri