This page has not been fully proofread.

पञ्चत्रिंशः श्लोकः
 
नवव्यूहात्मको देवः परानन्दपरात्मकः ।
नवात्मा भैरवो देवो भुक्तिमुक्तिप्रदायकः ॥
परानन्दपराशक्तिः चिद्रूपाऽऽनन्दभैरवी ।
तयोर्यदा सामरस्यं जगदुत्पद्यते तदा ॥
 
-
 
इति दिमात्रमुक्तम् । अवशिष्टं 'तवाधारे मूले '* इत्यादौ निरूप्यते ।
अयं भावः – आनन्दभैरवमहाभैरव्योः परानन्दपरासंज्ञयोः तादात्म्ये सिद्धे
नवात्मता द्वयोः समाना । अतः शेषशेषिभावः आपेक्षिकः – यदा सृष्टि-
स्थितिलयेषु आनन्दभैरवस्य परानन्दसंज्ञिकस्य परचित्स्वरूपायाश्च महाभैरत्र्याः
प्रयत्नः उत्पद्यते, तदा भैरवीप्राधान्यात् प्रधानं प्रकृतिशंब्दवाच्या महाभैरवीति,
तस्याः प्रधानत्वं शेषित्वं; आनन्दभैरवस्य अप्रधानत्वं गुणभावः शेषत्वन् ।
यदा सर्वोसंहारे प्रकृतेः तन्मात्रावस्थितौ भैरन्याः स्वात्मनि अन्तर्भावात्
मैरवस्य शेषित्वं तदा भैरव्याः शेषत्वमिति ॥ ३४ ॥
 
मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि
 
त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् ।
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा
 
चिदानन्दाकारं शिवयुवति भावेन बिभूषे ॥ ३५ ॥
 
मनः मनस्तच्वं आज्ञाचक्रस्थितं त्वं एव । व्योम आकाशतत्त्वं
विशुद्धिचक्रान्तस्थितं त्वं एव । मरुत् वायुतत्वं अनाहतनामक संविच्चक्रान्तर्ग-
तम् । असि इति त्वमित्यर्थे अव्ययम् । मरुत्सारथिः वायुसखः अस्तित्त्वं
स्वाधिष्ठानगतम् । असि इति पूर्ववत् अव्ययम् । लं आपः अहत्त्वं
मणिपूरान्तर्गतम् । त्वं भूमिः भूमितत्वं मूलाधारान्तर्गतम् । एवं रूपेण
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri