This page has not been fully proofread.

१०४
 
सौन्दर्यलहरी सव्याख्या
 
स्थूलरूपायाः मध्यमायाः नववर्गात्मिकायाः । अनयोः कार्यकारणयोः यतस्ततो
हेतोः सैवेयं सूक्ष्मैवेयं स्थूला । अतः स्थूलसूक्ष्मयोः ऐक्ये अभेदे विमर्श.
दशायामपिन कोsपि हेतुरस्तीति तात्पर्येणोक्तम् – यतस्ततो हेतोरिति ।
तदेव प्रतिपाढ्यति-न हि भेद इति । हेतुहेतुमदिति- हेतुहेतुमत्तादात्म्यं
अभीष्टमित्यन्वयः। सर्वत्र तादात्म्यं हेतुहेतुमद्वयतिरेकेण नास्तीत्यर्थः । अतश्च
मध्यमात्मिकायाः चिच्छक्तेः नवात्मता सिद्धा । रागेच्छाकृतिप्रयत्नानां कारण-
त्वेनागमेषु प्रसिद्धाः मायाशुद्धविद्यामहेश्वरसदाशिवाः रागादीनां तत्त्वभूताः
सङ्गृहीताः । तैः परापश्यन्तीमध्यमावैखर्यः अधिष्ठानभूताः सङ्गृहीता इत्यव
गन्तव्यम् ॥
 
बिन्दुव्यूहो नाम–षट्चक्रसङ्घः ॥
 
कलाव्यूहो नाम–पञ्चाशत्कलानां वर्णात्मिकानां सङ्घः ॥
जीवव्यूहो नाम–भोक्तृस्कन्धः ॥
 
एवं नवानां व्यूहानां भोक्तृभोग्यभोगरूपेणं त्रैविध्यम् । आत्मव्यूहस्य
भोक्तृत्वेऽपि भोग्यभोगतादात्म्यात् 'त्रैविध्यम् । एवं भोगव्यूहस्या प्यूह्यम् ।
अयमाशयः– आत्मव्यूहस्य भोक्तृत्वं, ज्ञानव्यूहस्य भोगत्वम्, कालव्यूहा-
दीनां भोग्यत्वमेवेति आचार्याणां त्रैविध्यमभिप्रेतमिति । सर्वेषां व्यूहाना
जीवव्यूहस्य सर्वत्र अन्वयादैक्यम् । कालव्यूहस्य अवच्छेदकत्वादैक्यम् ।
कुलनामव्यूहयोः निरूपकत्वादैक्यम् । ज्ञानव्यूहस्य बिन्दुव्यूहे तादात्म्यादैक्यम् ।
नादकलयोरैक्यात् नवव्यूहात्मकत्वं परमेश्वरस्य सिद्धमेव । अतो नवविधैक्यं
भैरवीभैरवयोः ज्ञातव्यमिति कौलमतरहस्यम् । अत एव कौलाः परमेश्वर
नवात्मेति व्यवहरन्ति । यथाहुः कौलाः-
-
 
'अविरुद्धम् । एवं भोग्यव्यूहस्य भोगव्यूहस्याप्यूह्यम्. परमेश्वरस्य
 
नवाष्मतेति.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri