2023-02-16 08:26:22 by ambuda-bot
This page has not been fully proofread.
चतुर्खिश: श्लोक:
इच्छा, ज्ञानं, क्रिया, शान्ता, परा चेति पञ्च शक्तयः श्रीचक्रान्तर्गतो-
र्ध्वमुखशक्तियोन्यात्मिकाः । एताभिः शक्तिभिः नवव्यूहात्मिकाभिः भगवत्याः
नवात्मत्वं उच्यते । यथोक्तं तत्रैव-
एका परा तदन्या वामादिव्यष्टिमातृसृष्ट्यात्मा ।
तेन नवात्मा माता जाता सा मध्यमाऽभिधानाभ्याम् ॥
द्विविधा हि मध्यमा सा सूक्ष्मा स्थूलाकृतिः स्थिरा सूक्ष्मा ।
नवनादमयी स्थूला नववर्गात्मा तु भूतलिप्याख्या ।
आद्या कारणमन्या कार्य त्वनयोर्यतस्ततो हेतोः ।
सैवेयं न हि भेदस्तादाम्यं हेतुहेतुमदमीष्टम् ॥
अस्यार्थ:-
एका परेति सत्त्वरजस्तमोगुणसाम्यरूपा । तदन्या पश्यन्ती
अन्यतरगुणवैषम्यरूपेत्यर्थः । मध्यमा वामादिव्यष्टिरूपा स्थूलात्मिका ।
बामादयः शक्तयो बैन्दवस्थानस्य उभयत्र सम्पुटत्वेनावस्थितांः । अत एव एताः
व्यूहशब्दवाच्यास्सत्यः नवात्मशब्देन व्यवह्रियन्ते । समष्टिरूपास्तु पराया-
मन्तर्भूताः । तेन कारणेन माता मातृका नवात्मा जाता । सा मध्यमा
अभिधानाभ्यां द्विविधा, हि यस्मात् सा मध्यमा सूक्ष्मा स्थूलाकृतिश्चेति
द्विविधा । सूक्ष्मास्वरूपमाह — स्थिरेति । स्थैर्यावस्थायां युक्तावस्थायामेव
अवभास्या । नवनादमयीति – नव नादाः अकचटतपयशक्षाः । एते पर-
स्परं भिन्नजातीयाः, स्वरकवर्गचवर्गटवर्गतवर्गपवर्गय वर्गशवर्गक्षवर्गाणां परस्परं
भिन्नत्वेन प्रतीयमानत्वात् । तत्र प्रमाणमाह — भूतलिप्याख्येति । मिथ्या-
विज्ञेयमिथ्यारूपायाः लिपेः आख्यापकत्वं दर्पणप्रतिबिम्बस्य मुखज्ञापकत्वमिव
न विरुध्यते । आद्या कारणमन्येति - आद्या सूक्ष्मरूपा मध्यमा कारणं
-
-
-
CC-0. Jangamwadi Math Collection. Digitized by eGangotri