This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
-
 
ज्ञानव्यूहो नाम – विज्ञानस्कन्धः । 'भागव्यूह इति नामान्तरमस्ति ।
स च द्विविधः 'सभागविभागभेदात् । सभागो विकल्पः, विभागो
निर्विकल्पः ॥
 
अहङ्कारपञ्चकं नाम -
 
१०२
 
चित्तव्यूहो नाम – अहङ्कारपञ्च कस्कन्धः ।
अहङ्कारचित्तबुद्धिमहन्मनांसि ॥
 
नादव्यूहो नाम – रागेच्छाकृतिप्रयत्नस्कन्धः । अनेन मातृकायाः परा
पश्यन्ती मध्यमा वैखरी इति चत्वारि रूपाणि । परा नाम सान्तरोहरूपा ।
अन्तरे अन्तःकरणे ऊहेन तर्केण सहितं रूपं यस्याः सा सान्तरोहरूपा ।
युक्तावस्थायामेव ज्ञातव्येत्यभिसन्धिः । यथोक्तं कामकलाविद्यायाम्-
या सान्तरोहरूपा परा' महेशी परा नाम ।
 
पश्यन्ती नाम एषैव स्पष्टा उच्यते । यथोक्तं तत्रैव
 
L
 
स्पष्टा' पश्यन्त्याख्या त्रिमातृका चक्रतां याता ॥
त्रिमातृका त्रिखण्डयुक्ता मातृका पञ्चदशाक्षरी, तदात्मिका । सा च चक्रतां
चक्रत्वं याता । त्रिखण्डात्मकचक्रैक्यं त्रिखण्डात्मकमातृकाया इति रहस्यम् ।
एतच्च पूर्व बहुधा प्रपञ्चितम् । स्पष्टा युक्तावस्थायां अतिसूक्ष्मतया प्रतीता
इत्यभिसन्धिः । मध्यमा नाम परापश्यन्त्योः उच्चानुच्चावस्थात्मिका ।
द्विविधा, वामादिव्यष्टिरूपा वामादिसमष्टिरूपा चेति । वामादिसमष्टिरूपा
सूक्ष्मा; वामादिव्यष्टिरूपा स्थूला । बामादयः शक्तयः–बामा, ज्येष्ठा,
रौद्री, अम्बिका। एताश्चतस्रः शक्तयः श्रीचकान्तर्गताघोमुखचतुर्योन्यात्मिकाः ।
 
सा
 
1 भोगव्यूह इति. सम्भोगविसम्भोगभेदात्
विसम्भोगो निर्विकल्प:. महेशी त्रिभाविता सैव.
इति क्वचिपाठो दृश्यते
 
5
 
2
 
" सम्भोगो विकल्पः•
• पश्यन्त्यादित्रिमातृका.
 
6
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri