This page has not been fully proofread.

चतुर्खिश: श्लोकः
 
१०१
 
साधारणतया उभयोः भैरवीभैरवयोः साधारणतया साधारण्यात्, स्थितः
अवस्थितः, सम्बन्धः शेषशेषिभावरूपः, वां युवयोः समरसपरानन्दपरयोः
समरसे सामरस्ययुक्ते परानन्दः आनन्दभैरवः परा आनन्दभैरवीरूपा
चिच्छक्तिः कला, समरसे च ते परानन्दपरे च तयोः ॥
 
अत्रेत्थं पदयोजना — हे भगवति ! शम्भोस्त्वं शशिमिहिरवक्षोरुहयुगं
शरीरं भवसीति शेषः । आनन्दभैरवस्य कालव्यूहान्तः पातित्वात् सूर्यचन्द्रयोः
वक्षोरुहयुगत्वारोपणं युक्तम् । यद्वा – अयमन्वयः - हे भगवति ! शशिमिहिर-
वक्षोरुहयुगं शरीरं शम्भोस्त्वमेव ।
 
सूर्यचन्द्रौ स्तनौ देव्याः तावेव नयने स्मृतौ ।
उभौ ताटङ्कयुगलमित्येषा वैदिकी श्रुतिः ॥
 
इत्यनेन भगवत्याः शम्भु प्रति शेषत्वमुक्तम् । हे भगवति ! तवात्मानमनघं
नवात्मानं मन्ये । अतः "शेष: शेषी" इत्ययं सम्बन्धः समरस परानन्द-
परयोः वां उभयसाधारणतया स्थितः ॥
 
अत्रेदमनुसन्धेयम् – महाभैरवस्य नवात्मेति संज्ञा, नवव्यूहात्म-
कत्वात् । नव व्यूहास्तु-
कालव्यूहः कुलव्यूहो नामव्यूहस्तथैव च ।
ज्ञानव्यूहस्तथा चित्तव्यूह: स्यात्तदनन्तरम् ॥
नादव्यूहस्तथा बिन्दुव्यूह: स्यात्तदनन्तरम् ।
कलाव्यूहस्तथा जीवव्यूहः स्यादिति ते नव ॥
 
अस्यार्थ:-
-
 
कालव्यूहो नाम-निमेषादिकल्पान्तावच्छिन्न काल समुदाय: कालव्यूहः ।
सूर्यचन्द्रयोरपि कालावच्छेदकतया कालव्यूहे अन्तर्भाव उक्तः ॥
कुलव्यूहो नाम – नीलादिरूपव्यूहः ॥
 
-
 
नामव्यूहो नाम– संज्ञास्कन्ध: SRI JAGADGURU VISHWARABIHA
 
-
 
UNANA SIMHASAN UN
 
LANDIR
 
LIBRARY
 
Jangamawadi Math, Maranasi
ACC. NO........
 
1084
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri