This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
*
 
'तवाज्ञाचक्रस्थम् * इत्यादिश्लोकषट्केन सामयिक मतं निरूप-
यिष्यन् सप्रभेदं कौलमतं तदुपयोगितया निरूपयति । कौलमतं द्विविधं,
पूर्वकौलं उत्तरकौल चेति । एतद्वितयं क्रमेण श्लोकद्वितयेनाह-
शरीरं त्वं शम्भोश्शशिमिहिरवक्षोरुहयुगं
 
तवात्मानं मन्ये भगवति नवात्मानमनघम् ।
अतश्शेषः शेषीत्ययमुभयसाधारणतया
 
स्थितः सम्बन्धो वां समरसपरानन्दपरयोः ॥ ३४ ॥
 
१००
 
शरीरं देहः, त्वं भवती महाभैरवी, शम्भोः आनन्दभैरवस्य,
शशि मिहिरवक्षोरुहयुगं शशी चन्द्रः मिहिरः सूर्यः तावेव वक्षोरुहौ
कुचौ तयोर्युगं युग्मं यस्य तत् । तव भवत्याः महाभैरव्याः, आत्मानं
देहं, मन्ये जानामि । भगवति ! भगः अस्या अस्तीति भगवती तस्याः
सम्बुद्धिः ।
 
यहा- इन्दुकला-
प्राशस्त्ये मतुपू ।
 
उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् ।
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥
इति स्मरणात् उत्पत्त्यादिवेदनं भगः तइती भगवती ।
विद्यायाः नवयोन्यात्मकत्वात् नवयोनिमती भगवती ।
नवयोनिमिः प्रशस्तेत्यर्थः । नवात्मानं - 'आनन्दमैरवम् नवव्यूहात्मकम् ।
आनन्दभैरवस्य नबव्यूहात्मकत्वं उपरिष्टात् वक्ष्यते । अनघं निर्दोषम्,
अतः अस्माद्धेतोः, यतः कारणात् परानन्दपरयोः ऐक्यं तस्मादित्यर्थः ।
4३ द्वेष गुणभूतः अप्रधानम् शेषी प्रधानम्, इत्ययं एवंप्रकार, उभय-
9
 
लोक:
नर्वेन्यूझरमतयोदाहृतः। आनन्द•
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri