2023-02-16 08:26:21 by ambuda-bot
This page has not been fully proofread.
त्र्यास्त्रंशः श्लोक:
९९
-
रसज्ञाः, परमयोगीश्वरा इति यावत् । भजन्ति सेवन्ते । त्वां भवतीं,
सहस्रदलकमलात् अवरोप्य हृत्कमले संस्थाप्य ताहग्विधां चिन्तामणिगुण-
निवद्धाक्षवलयाः चिन्तामणीनां गुणः गुणनं आम्रेडनं, समूह इति यावत्,
तेन निबद्धो रचितः अक्षवलयः अक्षमालिका येषां ते । या – चिन्ता -
मणय एव गुणनिबद्धाक्षाः सूत्ररचिताक्षाः पद्मबीजानि, तेषां वलयः मालिका
येषां ते तथोक्ताः, शिवाग्मौ शिवा शक्तिः त्रिकोणमिति यावत् तत्र
संस्कृतः अग्निः शिवाभिः । त्रिकोणे बैन्दवस्थाने स्वाधिष्ठानाग्नि अवयुत्य
तत्र निक्षिप्य पाशाङ्कुशाभ्यां सन्निरुध्य भुवनेश्वर्या अवकुण्ठ्य अग्नेः जात-
कर्मादिषोडशसंस्काराः यत्र क्रियन्ते सः शिवाभिरिति रहस्यमिति । अय-
माशयः—
त्रिकोणे बैन्दवस्थाने स्वाधिष्ठानाग्नि निक्षिप्येति । यद्यपि बैन्दव-
स्थानं चतुष्कोणं, तथापि पुरश्चरणात्मकक्रियायां संवित्कमले त्रिकोणं
आरोप्य सहस्रकमलात् बैन्दवस्थानस्थां कामेश्वरीं अवरोप्य पुरश्चरणं कार्य-
मिति समयिमतरहस्यमिति आचार्याणां आशय इति । जुह्वन्तः सन्तर्पयन्तः,
सुरभिघृतधाराहुतिशतैः सुरभिः कामगवी, तस्याः घृतं आज्यं, तस्य धाराः,
ताभिः आहुतयः हविः प्रक्षेपाः, तासां शतानि सहस्रं तैः ॥
अत्रेत्थं पदयोजना हे नित्ये ! तव मनोः आदौ स्मरं योनिं
लक्ष्मीं इदं त्रितयं निधाय निरवधिमहाभोगरसिकाः एके चिन्तामणिगुण-
निबद्धाक्षवलयाः शिवाम्नौ त्वां सुरमिघृतधाराहुतिशतैः जुह्वन्तः भवन्ति ॥
अत्रेदं तत्त्वम् –समयिनां मन्त्रस्य पुरश्चरणं नास्ति । जपो नास्ति ।
बाह्यहोमोऽपि नास्ति । बाह्यपूजाविधयो न सन्त्येव । हृत्कमल एव सर्वे
यावत् अनुष्ठेयम् । एतच्च 'जपो जल्पश्शिल्पम् '* इत्यादिश्लोकव्याख्याना-
वसरे किञ्चिदुक्तम् । अवशिष्टं कृत्सं 'तवाज्ञा चक्रस्थम् । इत्यादि श्लोक-
षट्कव्याख्यानावसरे निपुणतरमुपपादयिष्यामः ॥
+ ३६ श्लोकः.
२७ श्लोकः.
CC-0. Jangamwadi Math Collection. Digitized by eGangotri