This page has not been fully proofread.

सौन्दर्यलहरी सब्याख्या
 
९८
 
उभयोः मेलनं अवगत्य प्रविशेत् अनुसन्दधीतेति । पूर्वव्याख्यानेऽपि
ऐकाम्यानुसन्धाने सहायान्तरं न कर्तव्यम् । एकान्ते एव विद्या फलती-
त्युपदेशः । तत्कथमित्याशक्य दृष्टान्तेन द्रढयति-
* तत्सम्भव॑स्य व्र॒तम् ।
 
सम्भवो मन्मथः, चित्तजातत्वात् । तस्य व्रतं माहात्म्यं सहायान्तरं
तिरस्कृत्य एकाकिनैव रहस्ये स्त्रीपुरुषसंयोजनरूपम् । अतः मन्मथोपदिष्टमन्त्रा-
नुष्ठानवतां तथैव तदनुष्ठानमिति गोप्येयं विद्येति तात्पर्यम् । द्वितीयव्या-
ख्याने मन्मथो मिथुनं अवगत्य तस्मिन् मिथुने प्रविशति । एवं शिवशक्ति-
संपुटं अवगत्य साधकेन प्रवेष्टव्यमिति श्रुतेरर्थ: । अतश्च 'पुत्रो निर्ऋत्या
वैदेह:, '' 'जनको ह वैदेहः'' इति च श्रुतिद्वयस्य वैदेहयोः उभयोः
एक प्रत्यभिज्ञाविषयत्वात्, 'स यदाह'" इत्यादिवाक्यकदम्बकं प्रतिपदादि-
तिथिरूपचन्द्रकलात्मिकायाः श्रीविद्यायाः प्रतिपादनद्वारा सवितुः तत्प्रसाद-
जन्यं माहात्म्यं नान्यथेत्येवंपरमिति सर्व अनवद्यम् ॥ ३२ ॥
 
स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनोः
निधायैके नित्ये निरवधिमहाभोगरसिकाः ।
भजन्ति त्वां चिन्तामणिगुणनिबद्धाक्षवलयाः
शिवाग्नौ जुह्वन्तस्सुरमिघृतधाराहुतिशतैः ॥ ३३ ॥
 
स्मरं कामराजं, योनिं भुवनेश्वरीं, लक्ष्मीं श्रीबीजम्, इदं त्रितयं
आदौ तव मनोः मन्त्रस्य, निधाय संयोज्य, एके विरलाः समयिन, ।
नित्ये ! आद्यन्तरहिते ! निरवधिमहाभोगरसिकाः अपरिच्छिन्ननित्यानुभव-
† तै ब्रा. ३-१०-९.
 
* तै. आ. १-११.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri