This page has not been fully proofread.

द्वात्रिंशः श्लोकः
 
बाह्यपूजायामेव ऋषिच्छन्दः प्रभृतिज्ञानपूर्वकत्वम् । आन्तरपूजायां तादाम्यानु-
सन्धानात्मिकायां ऋष्यादिज्ञानं नास्त्येव । उपयोगस्तु दूरत एव । अतो
वस्तुसिद्धऋष्यादिपर्युदासमुखेन श्रीचक्रस्य बाह्यपूजनं त्रैवर्णिकैः न कर्तव्य-
मिति नियम्यते । तदुक्तं सनत्कुमारसंहितायाम् –
 
बाह्यपूजा न कर्तव्या कर्तव्या बाह्यजातिभिः ।
सा 'क्षुद्रफलदा नृणां ऐहिकार्यैकसाधनात् ॥
बाह्यपूजारतः कौलाः क्षपणाश्च कपालिकाः ।
दिगम्बरा श्चेतिहासा वामकास्तन्त्रवादिनः ॥
आन्तराराधनपरा वैदिका ब्रह्मवादिनः ।
जीवन्मुक्ताश्चरन्येते त्रिषु लोकेषु सर्वदा ॥ इति ॥
कौलाः आधारचऋपूजारताः । क्षपणकाः योषित् त्रिकोणेपुजारताः । कापालिकाः
• दिगम्बराश्च उभयत्र निरताः । इतिहासाः भैरवयामळप्रामाण्यवादिनः । वामकाः
तन्त्रवादिनः इत्येके वदन्ति, वामकेश्वरतन्त्रप्रामाण्यवादिनः । केवलचक्र-
पूजकाः ते वेदबाह्या इत्यन्वयः । आन्तरपूजारताः ब्रह्मवादिनः शुभागमतत्त्व-
वेदिनः । शुभागमपञ्चकं पूर्वमेवोक्तम् । आन्तरपुजाप्रकारः पुरस्ताइक्ष्यते च ॥
 
*य॑दि प्र॒विशेत् ।
 
असंशये संशयोक्तिः 'यदि वेदाः प्रमाणं' इतिवत् । प्रविशेदेवेत्यर्थः ।
* मि॒थौ चरि॑त्वा प्र॒विशेत् ।
 
2 मिथौ रहस्ये एकान्ते, चरित्वा अवगत्य । चर गतिमक्षणयोः ।
प्रविशेत्, आन्तरपूजां कुर्यादित्यर्थः । या— मिथौ मिथुनीभूतौ शिवा,
 
'क्षुद्रधर्मदा. *तै. आ. १-११. + 'वीतावासा' इत्यपि कचित् दृश्यते.
* मिथौ= मिथ इत्यर्थ:.
 
7
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri