This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
सोऽजि॑िह्वो अ॒सश्च॑त । *
 
सः अनङ्गः अनङ्गत्वादेव अजिह्नः जिह्वारहितः असश्चत अचोषत्,
आस्वादितवानित्यर्थः ॥
 
एतदुक्तं भवति-अनङ्गः पूर्व विद्यारलं पञ्चाशद्वणीत्मकं षोडशनित्या-
त्मकं षोडशकलात्मकं नानावेदेषु नानास्मृतिषु नानापुराणेषु नानाविधाग मेषु
विप्रकीर्ण दृष्टवान् । तदनन्तरं विप्रकीर्ण इमं मन्त्रं दृष्ट्वा सीवनं कृतवान् ।
पञ्चाशद्वर्णान् त्रिधा विभज्य खण्डत्रयं कृत्वा त्रिपुरसुन्दर्यादिषोडश नित्याः तत्र
अन्तर्भाव्य प्रतिपदादितिथीन् षोडश तत्रैव अन्तर्भाव्य, पञ्चदशवर्णात्मकं
त्रिखण्डं कृत्वा, तत्र सोमसूर्यानलात्मकतया ब्रह्मविष्णुमहेश्वरात्मकतया सत्वरज-
स्तमस्तवव्यवस्थिततया जाग्रत्स्वप्नसुषुप्त्यवस्थापन्नतया सृष्टिस्थितिलयहेतुभूत-
तया निश्चित्य श्रीविद्यात्मके चतुर्थे खण्डे पञ्चदशकलानां अन्तभावं निश्चित्य
भुवनेश्वरीप्रभृतीनां योगिनीविद्यानां नवानां त्रिकस्य त्रिकस्य एकैकहीङ्कारेण
अन्तर्भावं अङ्गीकृत्य, सर्वभूतात्मकं सर्वमन्त्रात्मकं सर्वतत्त्वात्मकं सर्वावस्था-
त्मकं सर्वदेवात्मकं सर्ववेदार्थात्मकं सर्वशब्दात्मकं सर्वशक्तयात्मकं त्रिगुणात्मकं
त्रिखण्डं त्रिगुणातीतं 'सादाख्यापरपर्यायं षड्विंशशिवशक्तिसंपुटात्मकं निश्चित्य
वर्णपञ्चदशकेन मूलविद्यां असीव्यत् । तदनन्तरं स्यूतं मन्त्रराज 'ग्रीवायां
घृतवान् चिरकालं ध्यानयोगेन पूजितवान् । तदनन्तरं चन्द्रकलामृतास्वादं
कृतवानिति सः मन्मथः ऋषिः अस्य मन्त्रस्येत्यर्थः ॥
 
नैतमृषिं विदित्वा नगरं प्रविशेत् । *
 
एतं ऋषि मन्मथ विदित्वा नगरं श्रीचक्रात्मकं न प्रविशेत् ऋषि-
ज्ञानपूर्वकं श्रीचक्रात्मकं नगरं न पूजयेत्, बाह्यपूजां न कुर्यादिति निषेधविधिः,
 
* तै. आ. १- ११. 1
 
सादाख्यकला पर्यायम् .
 
2
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
गृहीत्वा