This page has not been fully proofread.

द्वात्रिंशः श्लोकः
 
९५
 
न्तकलात्मकैः समाजगाम, तं मन्त्रं आहृतवानित्यर्थः । यस्तु मन्त्रं आहरति
स ऋषिरित्युच्यते । अत एव अरुणोपनिषदि-
पुत्रो निर्ऋत्या॑ वैदे॒हः ।*
 
निर्ऋत्याः लक्ष्म्याः । यद्वा - अनिर्ऋत्याः लक्ष्म्याः । पुत्रः वैदेहः
 
मन्मथः ॥
 
अचेता यश्च चेत॑नः । *
 
अनङ्गत्वादेव चेतोरहितः। चेतनश्च सर्वभूतान्तर्यामित्वात् ॥
 
स तं मणिम॑विन्दत् । *
 
-
 
सः अनङ्गः तं प्रसिद्धं मणि विद्यात्मकं रत्नं अविन्दत् लब्धवान्
अपश्यत् । असौ अनङ्ग अन्धोऽपि अपश्यदिति 'अन्धो मणिम विन्दित् '*
इति वाक्यशेषबलात् लभ्यते । अत एव परचित्कलायाः विद्यायाः त्रिपुरसुन्दर्याः
मन्मथः ऋषिरभूत् ॥
 
सेोऽनङ्गुलरावयत् । *
 
स मन्मथः अनङ्गत्वादेव अनङ्गुलिः आवयत् असीन्यत् ॥
सीवनानन्तरक्कृत्यमाह-
सोऽग्रीवः प्रत्य॑मुञ्चत् । *
 
सः मन्मथः अनङ्गत्वादेव अग्रीवः मणिसम्पादनफलं प्रत्यामोचनं अक-
रोत्, धृतवानित्वर्थः ॥
 
विद्यारत्ने मणित्वारोपणस्य फलं धारणमेव न भवतीत्याह-
* तै. आ. ११-१.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri