This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
अत उत्तरम्-
*
 
'यो ह॒ वा अहोरात्राण' नाम॒घेया॑नि॒ वेद॑ ।
नाहा॑रा॒त्रेष्वार्ति॒माहु॑ति । स॒ज्ञानं॑ विज्ञान दर्शा
 
दृष्टेति॑ । ए॒ताव॑नु॒वा॒कौ पू॑र्व॒प॒क्षस्या॑होरा॒त्राणां
 
-
 
नाम॒धेय॑नि । प्रस्तु॑तं॒ विष्ट॑सु॒ता सु॑न्वतीति ।
 
ए॒ताव॑नु॒वा॒काव॑पर॒पक्षस्य॑होरा॒त्राणां नामधेय॑नि ।
नारा॒त्रे॒ष्वार्तिमार्कैति । य ए॒वं वेद॑ ॥
 
इति बाक्यजातं पूर्वव्याख्ययैव व्याकृतम् । इतः परं वक्ष्यमाणं मुहू-
तर्घमासघटिकादीनां कलानां नामधेयजातं तत्रैव अन्तर्भूतमिति तद्व्याख्या -
नेनैव व्याख्यातमिति अनुसन्धेयम् । अत एव संज्ञानानुवाकः 'इयं वाब सरघा'
इत्यनुवाकश्च व्याकृतावेवेति अवगन्तव्यम् । यचु सावित्रप्रकाश के 'प्रजापति -
र्देवानसृजत' इत्यनुवाके* 'स यदाह' इत्यारभ्य 'जनको ह वैदेहः'
इत्यन्तेन तिथ्यात्मकत्वं सवितुः प्रतिपादितम्, तत्तु सादाख्यतत्त्वात्मिकायाः
चन्द्रकलाविद्यायाः श्रीविद्याऽपरनामधेयायाः पञ्चदश' तिथ्यात्मिकायाः प्रसादसमा-
सादितसामर्थ्य सवितुः, नान्यथेति प्रतिपादयितुं गौण्या वृत्त्या आह श्रुतिः ।
अत एव 'एष एव तत्। * इति गौणवृत्याश्रयणं प्रकटीकृतम् । अत
एतग्रन्थकलापानन्तरवाक्यम्-
जनको ह॒ वैदहः अहोरात्रैः समाज॑गाम* ॥
 
इति आम्नातम् । जनकः उत्पादकः श्रीविद्यायाः ऋषिः । विदेह एव वैदेहः
मन्मथः । अहोरात्रैः अहोरात्रात्मकैः पञ्चदशाक्षरीमन्त्रवर्णैः दर्शादिपूर्णिमा-
* तै. ना. ३-१०-९. 1 विद्यात्मिकाया: ?
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri