This page has not been fully proofread.

द्वात्रिंशः श्लोकः
 
*स यो ह॒ वा ए॒ता म॑धुकृत॑श्च मधुवृषाश्च॒ वेद॑ ।
कुर्वन्ति॑ हास्यै॒ता अ॒ग्नौ मधु॑ । नास्यष्टापूर्त
धयन्ति ॥
 
सः यः एताः मधुकृतो रात्रीः मधुवृषान् दिवसान् पूर्वोक्तान् यो वेद
अस्य वेचुः एताः अग्नौ बैन्दवस्थाने मधु सुधासिन्धुं कुर्वन्ति । अस्य
इष्टापूर्त वाञ्छितार्थपूर्ति न घयन्ति न रिक्तीकुर्वन्ति ॥
 
व्यतिरेके अनिष्टमाह -
 
* अथ यो न वेद॑ । न हास्यैता अग्नौ मधु कुर्वन्ति ।
 
BBM
 
धय॑न्त्यस्येष्टापूर्तम् ॥
 
व्याख्यातप्रायमेतत् ॥
 
-
 
अयमर्थः–चन्द्रकलाविद्यानुष्ठानं नाम मातृकामन्त्रयोरैक्यम् । मन्त्रचक्र-
योरैक्यं, चक्रनित्ययोरैक्यं, नित्याप्रतिपदादिकलयोरैक्यमिति समयिमततत्वम् ।
एतदनुष्ठाने शुक्लपक्षकृष्णपक्षविवेकः, दिवसरात्रिविवेकश्च उपयुज्यते । दर्शा-
दिपौर्णमास्यन्तास्वेव कलासु चतुर्विधैक्यानुसन्धानं, न अमावास्यायाम् ।
कृष्णपक्षशब्दः अमावास्यापरः इत्युक्तं प्रागेव । अतश्च अमावास्यायामिव
शुक्लपक्षदिवसेष्वपि न अनुष्ठानमिति ध्येयम् । एवं परिशेषवृत्त्या अमावास्यायां
उपासनानिषेधः, न तु सर्वस्मिन् कृष्णपक्षे । अतश्च सर्वासु रात्रिषु अमावास्या-
व्यतिरिक्तासु उपासना, न सर्वेषु दिवसेषु. इति गुरूपदेशवशात् ज्ञेयं रहस्यम् ॥
 
1
 
* तै. ब्रा. ३-१०-१०.
1 चतुष्टयैक्यानुसन्धानम् ?
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri