This page has not been fully proofread.

सौन्दर्यलहरी सब्याख्या
 
एताः कृष्णपक्षरात्रयः । एतासां कृष्णपक्षरात्रीणां आधारचक्रे एव
अमावास्यात्मकतया अवस्थानात्, समयिनां तत्र व्यवहाराभावात् शुक्लपक्ष-
रत्रिष्वेव चन्द्रकलासञ्चारात्, तत्रैव कुण्डलिनीप्रबोधात्, स्वरूपमात्रोद्देश
एव कृतः । शुक्लपक्षरात्रीणामेव कलात्वम् । तत्स्वरूपं पूर्वमेव निरूपितम् ॥
अत एव कुण्डलिनीप्रबोधो रात्रावेव, न दिंवा, दिवसानां मधुनः
स्रावकत्वादित्याह-
९२
 
* यान्यहा॑नि । ते मधुकृ॒षाः ।
 
मधु वर्षन्तीति मधुवृषा: । अत एव दिवा योगिनः कुण्डलिनीं (न)
बोधयन्तीति, शुक्लकृष्णपक्षयोः दिवसानां नामानि नोक्तानि अप्रस्तुतत्वात् ।
तथापि वेदे फलश्रवणात् । उद्देशमात्रेण कथ्यन्ते । शुक्लपक्षदिवसनामानि -
 
-
 
-
 
"संज्ञान विज्ञानं प्र॒ज्ञा' जानद॑भिजा॒नत् ।
सङ्कल्पमानं प्र॒कल्प॑मा नमु॒पकल्प॑मान॒मुप॑क्लृप्तं
क्लृप्तम् । श्रयो बसी॑य आयत् संभूतं भूतम् ॥
 
इति शुक्लपक्षदिवसनामानि । कृष्णपक्षदिवसनामानि तु—
प्रस्तुतं विष्टुत सस्तुतं कल्याण विश्वरूपम् ।
शु॒क्रम॒मृत॑ तेजस्व तेजः समद्धम् । अरुणं
 
-
 
मा॑नु॒मन्मरी॑ चिमदमि॒तप॒त्तप॑स्वत् ॥
 
एतेषामुभयेषां शुक्लृकृष्णपक्षाहोरात्राणां नामधेयानि 'यो वेद तस्य
 
फलमाह-
-
 
*ते. प्रा. ३-१०-१०० + तै. ब्रा. ३-१०-९ २ तेषां वेदस्य.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri