This page has not been fully proofread.

द्वात्रिंशः श्लोक:
 
९१
 
इति । एवं उभयं मन्त्रब्राह्मणात्मकं अनारभ्याधीतं ज्ञानैकफलं वाक्यजातम् ॥
 
*इ॒यं वाब स॒र
 
अस्यार्थः - इयं चन्द्रकला सादाख्या सरधा सरघावत् मधुस्यन्दिनी
अमृतस्यन्दिनीति श्रीचक्रात्मकचन्द्रस्य सरघात्वनिरूपणम् ॥
 
* तस्या॑ अ॒ग्निरे॒व सा॑र॒घं मधु' ।
 
तस्याः सरघायाः अभिरेव अग्निस्थानमेव बैन्दवं त्रिकोणं सारघं
सरघोद्भूतं मधु, तस्यैव सुधासिन्धुरूपत्वात् ॥
 
सारघस्य मधुनः उपचयापचयप्रकारमाह-
* या ए॒ताः पूर्वपक्षापरपक्षयो रात्र॑यः ।
 
'एता: संज्ञानानुवाके कथिताः । पूर्वपक्षापरपक्षयोः शुक्लकृष्णपक्षयोः
 
रात्रयः ॥
 
*ता म॑धुकृत॑: ।
 
ताः रात्रयः मधु कुर्वन्तीति मधुकृतः । रात्रिष्वेव मधुनः सङ्ग्रह इति
लोकप्रसिद्धिः । रात्रावेव चन्द्रकलांरूपायाः श्रीविद्यायाः अनुष्ठानं, न च
दिवसे इति उपदेशः । पूर्वपक्षरात्रयः दर्शादिपौर्णमास्यन्ताः पूर्व निरूपिताः ।
कृष्णपक्षरात्रिनामधेयानि तु
 
†सु॒ता सु॑न्व॒ती प्रसु॑ता सू॒यमा॑नाऽभि॑िषु॒यमा॑णा ।
 
पीता
तो॑ प्र॒पा संपा तृप्ति॑स्त॒र्पयन्ती । कान्ता
 
-
 
काम्या कामजाताऽऽयुष्मती कामदुधा
 
* तै. ब्रा. ३-१०-१०. तै. प्रा. ३-१०-१.
 
1 यस्याः सरघायाः इत्यधिकः.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri