This page has not been fully proofread.

सौन्दर्यलहरी सभ्याख्या
 
अयमर्थः– शिवः शक्तिः कामः क्षितिरिति शिवशब्देन शिवतत्त्वा-
त्मिका दर्शाख्या कला त्रिपुरसुन्दरीनामधेया कथ्यते । तया तत्प्रकृतिभूतः
ककारो लक्ष्यते । एवं शक्तिशब्देन शक्तितत्त्वात्मिका या दृष्टा कला तया
एकारो लक्ष्यते । काम इत्यनेन कामदेवत्या या दर्शता कला तया ईकारो
लक्ष्यते । क्षितिरित्यनेन "लकारः क्षितितत्त्वं" इति शास्त्रान्तरप्रसिद्धया
लकारो लक्ष्यते। रविरित्यनेन सूर्यखण्डात्मतया रविः हकारो लक्ष्यते ।
शीतकिरणः चन्द्रः । "सकार: चन्द्रबीजं" इति शास्त्रान्तरप्रसिद्धया शीत-
किरणशब्देन सकारो लक्ष्यते । स्मरशब्देन कामराजप्रकृतिभूतः ककारो
लक्ष्यते । हंसः सूर्यः हकाराधिपतिरितित्युक्तं प्राक् । शक्रः इन्द्रः । "लकारः
इन्द्रबीजं" इति शास्त्रान्तरप्रसिद्धेः शऋशब्देन लकारो लक्ष्यते । परा चन्द्र-
कलेति चन्द्रबीजं सकारो लक्ष्यते । मारः कामराजबीजमिति तत्प्रकृतिभूतः
ककारो लक्ष्यते । हरिः इन्द्रः लकारो लक्ष्यते । एवं मन्त्रगतवर्णानां
ककारादीनां शिवादिपदानि लक्षकाणि, कचित् लक्षितलक्षकाणीति ध्येयम् ॥
 
एवं पञ्चदशनित्यानां समुदायात्मकस्य मन्त्रस्य पञ्चदशतिथिषु
अनुष्ठानं विहितंम् । पृथक् नित्यानुष्ठानं तु प्रतिदिनं पृथक् नियतम् ।
एतच्च अतिरहस्यं गुरुमुखादेव अवगन्तव्यमपि शिष्यानुजिघृक्षया कथितम् ।
अतश्च इममेव अर्थ श्रुतिरप्याह-
९०
 
-
 
दर्शाद्याः पूर्णिमान्ताश्च कलाः पञ्चदशैव तु ।
 
इत्यत्र यत् बहु वक्तव्यं, तत्तु श्रुतिव्याख्यानावसरें निरूपयिष्यामः । तथा च
तैत्तिरीयशास्खायां काठके श्रूयते – 'इयं बाब सरर्धा' इत्यनुवाक: *। तत्र
षोडशनित्यात्मकदिवसपरिज्ञाने फलं प्रतिपादितं, ज्ञानमात्रफलप्रतिपादकत्वात् ।
अनारभ्याधीतं अश्वमेधकाण्डानन्तरं 'संज्ञान विज्ञानम्'
पादकवाक्यानां प्रकरणभेद एव । तस्य अनुवाकस्य ब्राह्मणं 'इयं वाव सरघा
 
इति, तिथिप्रति-
**
 
* * तै. बा. ३-१०-१०.
 
+ तै. ब्रा. ३-१०-१.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri