This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
अन्तर्भूताः । स च इन्दुखण्डः इन्द्वात्मके यन्त्रखण्डेऽन्तर्भूतः । एवं
भानोः चतुर्विंशतिकलाः मानुखण्डेऽन्तर्भूताः । स च खण्डः यन्त्र-
खण्डेऽन्तर्भूतः । एवमाग्नेया दशकला आग्नेयखण्डे अन्तर्भूताः । स च
खण्डः यन्त्रे आग्नेयखण्डे अन्तर्भवतीति कलायन्त्रमन्त्राणां ऐक्यमनुसन्धेयम् ॥
सुभगोदये नित्यानां स्वरूपमुक्तम्-
८८
 
दर्शाद्याः पूर्णिमान्ताश्च कलाः पञ्चदशैव तु ।
 
षोडशी तु कला ज्ञेया सच्चिदानन्दरूपिणी ॥ इति ॥
अस्यार्थः–दर्शाद्याः पूर्णिमान्ताश्च तिथयः । दर्शा नाम अमावास्यानन्तर-
भाविनी प्रतिपत्कला । तस्या ईषद्दर्शनात् दर्शा । दर्शा आद्या यासां ताः ।
पूर्णिमा अन्तो यासां ताः ॥
 
दर्शा, दृष्टा, दर्शता, विश्वरूपा, सुदर्शना, आप्यायमाना, आप्याय-
माना, आप्याया, सूनृता, इरा, आपूर्यमाणा, आपूर्यमाणा पुरयन्ती, पूर्णा,
पौर्णमासी – एतानि नामधेयानि श्रुतिबोधितानि सङ्गृहीतानि 'दर्शाद्याः
पूर्णिमान्ताः' इत्यनेन । एतासां स्वरूपं पुरस्तात् निवेदयिष्यते । दर्शादीनां
पञ्चदशानां कलानां यथाक्रमं त्रिपुरसुन्दरीप्रभृतयः पञ्चदश नित्याः अधिदेवताः।
षोडश्याः चिद्रूपात्मिकायाः कलायाः सादाख्यतत्त्वरूपत्वात् अधिदेवतान्तरं
नास्ति । स्वयमेव सर्वस्य अघिदेवतेति ध्येयम् । एतासां नित्यानां अभि-
मानिनी देवता कामदेवः एक एव । अधिष्ठानदेवता कामेश्वरी एकैव ।
अतश्च मूलविद्यागतपञ्चदशवर्णानां दर्शादयः कलाः, नित्याः कलाश्च, विप्र-
हान्तरमिति अनुसन्धेयम् । अत एव दर्शादिकलानां त्रिखण्डत्वं स्पष्टम् ।
दर्शा दृष्टा दर्शता विश्वरूपा सुदर्शना- एष आग्नेयः खण्डः । आप्याय-
माना आप्यायमाना आप्याया सूनृता इरा-एष सौरः खण्डः । आपूर्य-
-
 
1 सचायं खण्डद्वयात्मके.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri