This page has not been fully proofread.

द्वात्रिंशः श्लोकः
 
ळकार:
 
अन्तर्भूतम् । हकारः आकाशबीजं बैन्दवाकाशे निलीनम् ।
अन्तस्थास्वन्तर्भूतोऽपि ककारेण प्रत्याहारार्थ पुनर्गृहीतः । क्षकारस्तु ककार-
षकारसमुदायरूपत्वात् । ककारादयः सान्ताः षोडश नित्यामु अन्तर्भूताः
स्वरसहिताः ॥
 
८७
 
अकारेण प्रत्याहृतः क्षकारः अक्षमालेति गीयते । अतः क्षकारेण *
सर्वा मातृकाः सङ्गृहीता भवन्ति । अत एव अन्तिमखण्डे सकलद्दीमिति
ककारलकारयोर्योगे कलाशब्दनिष्पत्तिः, कषयोर्योगे क्षकारनिष्पत्तिरिति,
एवं मन्त्रेण सर्वा मातृकाः सङ्गृहीता इति तात्पर्यम् ॥
 
अतश्च षोडशनित्यानां मन्त्रगतषोडशवर्णात्मकत्वं, षोडशवर्णानां
पञ्चाशद्वर्णात्मकत्वं पञ्चाशद्वर्णानां सूर्यचन्द्राग्मिकलात्मकत्वं, सूर्यचन्द्राभिरूपेण
त्रिखण्डत्वमिति ऐक्यचतुष्टय मनुसन्धेयम् ॥
 
एवं चक्रमन्त्रयोरपि । यथा हीङ्कारत्रयं श्रीबीजं च शिवचऋचतुष्ट-
यात्मकत्रिकोणे बिन्दुरूपेण अन्तर्भूतम् । सकलेति वर्णत्रयेण सङ्गृहीत
मातृका, अक्षमालात्मिका, मातृका उभयमपि यथायोगं चक्रे अन्तर्भूतम् ।
तथाहि — अन्तस्थाश्चत्वारः, ऊष्माणेश्चत्वारः-
एवमष्टौ वर्णाः अष्टकोणात्मकाः।
कादयो मावसानाः वर्गपञ्चमान् विहाय दशारथुम्मे अन्तर्भूताः । वर्गपञ्चमास्तु
अनुस्वाररूपेण बिन्दावन्तर्भूताः । चतुर्दशारे चतुर्दश स्वरा अन्तर्भूताः ।
अनुस्वारविसर्गयोः बिन्दावन्तर्भावः । इति चक्रमन्त्रयोरैक्यं सुभगोदयमतानु-
सारेण कथितम् ॥
 
पूर्णोदयमतानुसारेण तु–सोमसर्यानलात्मकतया चक्रस्य त्रिखण्डत्वम् ।
एवं मन्त्रस्यापि त्रिखण्डत्वं सुप्रसिद्धम । चन्द्रस्य कलाः षोडश इन्दुखण्डे
 
1
 
-
 
* 'अतः अज्ञ इति प्रत्याहरेण' इति प.-
S
'विद्याचतुष्टय' इति तव
- कोशे. बैन्दव्य:-
-कोशे. अथवा इति प. कोशे
 
1
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri