This page has not been fully proofread.

सौन्दर्यलहरी सब्याख्या
 
श्चन्द्रो नित्यकलायुक्तः । चन्द्रविन्वं श्रीचक्रम् । कला सादाख्या । अतश्च
त्रिकोणं आधारः, अष्टकोणं स्वाधिष्ठानम्, दशारं मणिपूरं, द्वितीयदशारं
अनाहतं, चतुर्दशारं विशुद्धिचक्रम्, शिवचऋचतुष्टयं आज्ञाचक्रं, बिन्दु-
स्थानं चतुरश्रं सहस्रकमलमिति सिद्धम् । आज्ञाचक्रगतचन्द्रे पञ्चदश कलाः,
षोडश्याः कलायाः प्रतिफलनं च । श्रीचक्ररूपचन्द्रबिम्बे एकैव कला, सा
परमा कला । मिलित्वा षोडशकलाः । यथा-

 
षोडशेन्दोः कला भानोः द्विदश दशानले ।
 
सा पञ्चाशत्कला ज्ञेया मातृकाचक्ररूपिणी ॥ इति ॥
 
एताः पञ्चाशत्कलाः पञ्चाशद्वर्णात्मकाः पञ्चदशाक्षरीमन्त्रे अन्तर्भूताः । यथा-
आदिमेन ककारेण अन्तिमो लकारः प्रत्याहृतः तन्मध्यवर्तिनां वर्णानां
ग्राहकः । अयमेव लकारः एकारपर्ववर्तिना अकारेण प्रत्याहृतः पञ्चाशद्वर्ण-
ग्राहकः ॥
 
ननु अनेनैव प्रत्याहारग्रहणेन पञ्चाशद्वर्णात्मकमातृकाग्रहणे किमर्थ
ककारलकारयोः प्रत्याहारग्रहणप्रयासः ?
 
उच्यते–ककारादिलकारान्तानां कलाशब्दवाच्यत्वं गौणेम्, व्यञ्ज-
नानां स्वरान् प्रति अङ्गत्वात्; कलानां स्वराणां प्रधानत्वमिति गुणप्रधान-
भावप्रदर्शनार्थ प्रत्याहारद्वयाश्रयणं कृतं सनकादिभिरिति ध्येयम् ॥
 
चत्वारोऽनुस्वाराः बिन्दुलक्षकाः । तेन बिन्दुना तदुपरि प्रतीयमानो
नादः सङ्गृहीतः । एवं नादबिन्दुकलात्मकं श्रीचक्रं त्रिखण्डमिति कथितम् ।
सादाख्या कला श्रीविद्यापरपर्याया नादबिन्दुकलातीता ॥
 
पता: षोडशनित्यासु अन्तर्भूताः । तथाहि —षोडश स्वराः, कादयः
तान्ताः षोडश, थादयः सान्ताश्च षोडश । षोडशत्रिकं षोडशनित्याल
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri