This page has not been fully proofread.

८५
 
द्वात्रिंशः श्लोकः
 
सञ्चरणम् । चन्द्रस्तु वामनाडीमार्गेण सञ्चरन् द्विसप्ततिसहस्रनाडीमार्ग
अमृतेन सिञ्चति । सूर्यस्तु दक्षिणनाडीमार्गेण सञ्चरन् तदुत्क्षिप्तान् अमृत-
बिन्दून् उपाहरति । यदा चन्द्रसूर्ययोः उभयोः आधारचक्रे समावेशः तदा
अमावास्या तिथिरुत्पद्यते । कृष्णपक्षतिथयः ततः उत्पद्यन्ते । अत एव
कुण्डलिनीशक्तिः आधारकुण्डे सूर्यकिरणसम्पर्कात् विलीनचन्द्रमण्डलमध्य-
गलत्पीयूषपरिपूरिते स्वपिति । स्वापावस्थैव कृष्णपक्ष इत्युच्यते । योगी यदा
समाहितचित्तः चन्द्रं चन्द्रस्थाने सूर्य सूर्यस्थाने वायुना निरोद्धं क्षमते तदा
चन्द्रसूर्यौ निरुद्धौ अमृतसेचनतदाहरणयोः अशक्तौ । तदानीं वायुना प्रेरितेन
स्वाधिष्ठानवह्निना शुष्कीभूते अमृतकुण्डे निराहारा कुण्डलिनी सुप्तोत्थिता
सती सर्पवत् फूत्कारं कुर्वती ग्रन्थित्रयं भित्वा सहस्रदलकमलमध्यवर्ति चन्द्र-
मण्डल दशति । तस्माद्गलत्पीयूषधाराः आज्ञाचक्रोपरिस्थित चन्द्रमण्डलं आप्ला-
वयन्ति । तस्माद्गलिताभि: अमृतधाराभिः सर्व देहमाप्लावयन्ति । ततश्च
आज्ञाचक्रोपरिस्थितस्य चन्द्रमसः कलाः पञ्चदश नित्याः । ताः पञ्चदश
तदधस्स्थितविशुद्धिचक्रमाश्रित्य परिवर्तन्ते । सहस्रद्लकमलान्तस्स्थित चन्द्रगण्डलं
बैन्दवस्थानम् । तत्कला चिन्मयी आनन्दरूपा आत्मेति गीयते । सैव
त्रिपुरसुन्दरी । एवं शुक्लपक्ष एव कुण्डलिनीप्रबोधः कर्तुं शक्यते योगीश्वराणां,
न तु कृष्णपक्ष इति रहस्यम् । सर्वाः शुक्लपक्षतिथयः पौर्णमासीसंज्ञकाः ।
सर्वाः कृष्णपक्षतिथयस्तु अमावास्यायां अन्तर्भवन्ति । एकैवामावास्या कृष्ण-
पक्ष इति गीयते । अत एव आधारं अन्धतामिस्रम् । स्वाधिष्ठानं तु सूर्य-
किरणसम्पर्कात् मिश्रलोकः । मणिपूरस्तु अग्निस्थानत्वेऽपि तत्र स्थिते जले
सूर्यकिरणप्रतिबिम्बात् मिश्रक एव लोकः । अनाहतं ज्योतिर्लोकः । एवं
अनाहत चक्रपर्यन्तं ज्योतिस्तमोमिश्रको लोकः । विशुद्धिचक्रं चान्द्रो लोकः ।
आज्ञाचक्रं तु चन्द्रस्थानत्वात् सुधालोकः । अनयोर्लोकयोः सूर्यकिरणसम्पर्कात्
ज्योत्स्ना नास्ति । सहस्रकमलं तु ज्योत्स्नामय एव लोकः । तत्र स्थित-
CC-0. Jangamwadi Math Collection. Digitized by eGangotri