2023-02-16 08:26:17 by ambuda-bot
This page has not been fully proofread.
८४
सौन्दर्यलहरी सव्याख्या
नीयम् । अतश्च पञ्चदशकलाव्यवधानं सूर्यचन्द्रयोर्यत्र सा पौर्णमासी ।
सा अमावास्येति ज्ञेयम् ।
पञ्चदश्यां कलायां सूर्यचन्द्रयोरत्यन्तसंयोगः
अतः कौलमते चन्द्रकलात्मिकानां षोडशानां नित्यानां प्रतिदिनं एकस्या
एवानुष्ठानम् । सर्वासां समयिमते । षोडश्याः कलायास्तु पञ्चदशस्वपि
तिथिषु अनुष्ठानं सिद्धम्, पञ्चदशानां नित्यानां अत्रैव अन्तर्भावात् ॥
अयं च सम्प्रदायक्रमः सम्यगुक्तोऽपि दुर्विज्ञेयं प्रमेयजातमिति
विस्पष्टार्थं पुनरुच्यते । प्रतिपदि त्रिपुरसुन्दरीकला ध्येया । द्वितीयायां
कामेश्वरीकला । तृतीयायां भगमालिनीकला । चतुर्थ्या नित्यक्किन्नाकला
उपास्या । पञ्चम्यां भेरुण्डाख्या कला । षष्ठ्यां वह्निवासिनीकला । सप्तम्यां
महा'विद्ये[वज्रेश्वरीकला । अष्टम्यां रौद्रीकला । नवम्यां त्वरिताकला ।
दशम्यां कुलसुन्दरीकला । एकादश्यां नीलपताकाख्या कला । द्वादश्यां
विजयाख्या कला । त्रयोदश्यां सर्वमङ्गलाख्या कला । चतुर्दश्यां ज्वालाख्या
कला । पञ्चदश्यां मालिन्याख्या कला । सर्वासु तिथिषु चिद्रपाख्या कला
षोडशी उपास्या । प्रतिपदि या त्रिपुरसुन्दरी कथिता सा चिद्रूपात्मिका न
भवति, चिद्रूपात्मिकायाः मूलविद्यायाः भिन्नत्वेन अनुष्ठानात् । मन्त्रभेदश्च - स
मन्त्रः प्रतिपद्येव अनुष्ठेयो न द्वितीयायामिति । त्रिपुरसुन्दरीनित्यायाः नाम-
साम्यमित्यवगन्तव्यम् ॥
एतासां षोडशनित्यानां चन्द्रकलात्मिकानां विशुद्धिचक्रं षोडशारं
स्थानम् । तत्र प्रागादिक्रमेण षोडश नित्याः तत्कोणेषु परिवर्तन्ते । तद-
घस्स्थितद्वादशारे संवित्कमले द्वादशसूर्यमण्डलानि प्रादक्षिण्यक्रमेण परिवर्तन्ते ।
तेषां द्वादशानां सूर्याणां द्वादशमासेषु अधिकारः ॥
एतच्च सनत्कुमारसंहितायां श्लोकैः सप्तशत्या निरूपितं 2 संक्षेपेणो-
च्यते-सूर्यचन्द्रयोः देययानपितृयानात्मकेडापिङ्गलानाडीमार्गेण अहोरात्रयोः
1 विश्वेश्वरीकला.
2
" तत्तु संक्षेपेणोच्यते.
CC-0. Jangamwadi Math Collection. Digitized by eGangotri