This page has not been fully proofread.


 
न च-
द्वात्रिंशः श्लोक:
 
सच्छिण्यायोपदेष्टव्या गुरुभक्ताय सा कला ॥ इति ॥
शिष्याणामेवोपदेष्टव्या नान्येषामिति वाच्यम् । ये तु मदीयं ग्रन्थं
दृष्ट्वा तां कलां जानन्ति ते मच्छिष्या एवेत्यस्माकमनुग्रहः ॥
 
ननु पादवन्दन – पादोपसङ्ग्रहण - हस्तमस्तकसंयोगादेः अङ्गकलापस्य
शिष्यत्वापादकस्याभावे कथं तेषु शिष्यत्वमिति चेत्-
"
 
सत्यम् अस्मदीयग्रन्थं दृष्ट्वा पोडश्याः कलायाः स्वरूपं गुर्वन्तर-
मुखादेव जानतां शिष्यत्वं मास्तु । ये तु न जानन्ति गुरुमुखादपि तेषा-
मुपदेशो न सम्भाव्यत एव, तदानीं गुर्वेकपरतन्त्रे अस्मिन् मन्त्रे "के
वाऽस्माकं गुरवः ?" इति जिज्ञासायामुदयमानायां तेषां जिज्ञासूनां वर्तमानानां
वर्तिष्यमाणानां च वयमेव गुरव इति तेष्वनुग्रहः कृतोऽस्माभिः ॥
 
षोडशी कला नाम शकार - रेफ - ईकार - बिन्द्वन्तो मन्त्रः । एतस्यैव
बीजस्य नाम श्रीविद्येति । श्रीबीजात्मिका विद्या श्रीविद्येति रहस्यम् । एवं
षोडशनित्यानां प्रकृतिभूताः ककारादयः । ताश्च षोडश नित्याः शुक्लप्रति-
पदमारभ्य पौर्णमास्यन्ततिथिरूपाः, कृष्णपक्षप्रतिपदमारभ्य अमावास्यान्त-
तिथिरूपाः । एता एव चन्द्रकलाभिधानाः । चन्द्रकला एव प्रतिपदा दि-
तिथय इति सुप्रसिद्धम् । यथोक्तं ज्योतिश्शास्त्रे-
-
 
प्रतिपन्नाम विज्ञेया चन्द्रस्य प्रथमा कला ।
 
द्वितीयाद्या द्वितीयाद्याः पक्षयोश्शककृष्णयोः ॥ इति ॥
 
1
 
अयमर्थः – चन्द्रस्य प्रथमायाः कलायाः प्रतिपदिति नामधेयम् । सैव
कलात्मिका सूर्यमण्डलान्निर्गता । कृष्णपक्षे तु सूर्यमण्डलं प्रविष्टा । एवं
शुक्लपक्षे सूर्यमण्डलान्निर्गता द्वितीया कला द्वितीया तिथिः । कृष्णपक्षे तु
सूर्यमण्डलं प्रविष्टा द्वितीया कला द्वितीया तिथिरिति । एवं सर्वत्र ऊह-
CC-0. Jangamwadi Math Collection. Digitized by eGangotri