2023-02-16 08:26:16 by ambuda-bot
This page has not been fully proofread.
सौन्दर्यलहरी सव्याख्यां
८३
खण्डम् । उभयोः खण्डयोः मध्ये रुद्रग्रन्थिस्थानीयं हृल्लेखाबीजम् । परा-
मारहरय इति वर्णत्रयेण सौम्यं खण्डं निरूपितम् । सौम्यसौरखण्डयोर्मध्ये
विष्णुप्रन्थिस्थानीयं भुवनेश्वरीबीजम् । तुरीयमेकाक्षरं चन्द्रकलाखण्डम् ।
सौम्यचन्द्रकलाखण्डयोर्मध्ये ब्रह्मग्रन्थिस्थानीयं हृल्लेखाबीजम् । चन्द्रकला-
खण्डं तु गुरूपदेशवशादवगन्तव्यमिति न प्रकाशितम् । अत एव —
त्रिखण्डो मातृकामन्त्रः सोमसूर्यनलात्मकः ॥ इति ॥
अवरोहक्रमेणेति शेषः । 'सोमसूर्यानलात्मकः' इत्येतावन्मात्रे वक्तव्ये
त्रिखण्ड इत्युक्तिः ज्ञानशक्तीच्छाशक्तिक्रियाशक्त्यात्मकं खण्डत्रयमिति जाग्रत्स्वप्न-
सुषुप्त्यवस्थात्रयात्मकं, विश्वतैजसप्राज्ञवृत्तित्रयात्मकम्, तमोरजस्सत्त्वगुणात्मकं
इत्येवंपरा । एतच्च पुरस्तात्प्रपञ्चयिष्यामः ॥
अत्र शिवश्शक्तिरित्या दिशब्दाः क्वचित् लक्षितलक्षणया कचित्
लक्षणया ककारादिवर्णपराः । तथाहि त्रिपुरसुन्दरीमन्त्रस्य षोडशवर्णाः ।
ते च षोडश वर्णाः षोडशनित्यात्मतया स्थिताः । अत्र षोडश्याः कलायाः
नित्यात्वव्यपदेशः चन्द्रकलात्वरूपसाम्यात् । सा च परा कला चिदेकरसा ।
तस्याश्छाया विशुद्धिचक्रे षोडशारे कलात्मतया भ्रमतीति* रहस्यम् ।
प्रधानं प्रकृतिश्च । अस्या अङ्गभूताः पञ्चदश नित्या इति पूर्वश्लोके
प्रतिपादितम् ॥
सां
1
यद्यपि ककारादयः श्रयमाणाः पञ्चदश वर्णाः संप्रदायतो ज्ञातव्या
एको वर्णः षोडशकलात्मकः प्रधानभूत इति, यद्यपि षोडशी कला गुरु-
मुखादेव अवगन्तव्या; तथापि तस्या अप्रतिपादने व्याख्यानं सापेक्षमेव ।
अतोऽनुपादेयं स्यादेवेति सा कला निरूप्यते ॥
* 'भ्राजतीति' इति तं-पुस्तके. 1
प्रकृतिभूत इति.
CC-0. Jangamwadi Math Collection. Digitized by eGangotri