This page has not been fully proofread.

द्वात्रिंशः श्लोकः
 
८१
 
अथ निखिलपुरुषार्थैकघटनास्वतन्त्रं भगवत्यास्तन्त्रं पशुपतिः क्षिति-
तलमवातीतरदित्युक्तं पूर्वश्लोके । तदेव तन्त्रं प्रस्तौति –
 
-
 
शिवशक्तिः कामः क्षितिरथ रविश्शीतकिरणः
 
स्मरो हंसश्शक्रस्तदनु च परामारहरयः ।
अमी हल्लेखाभिस्तिसृभिरवसानेषु घटिताः
भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥ ३२ ॥
 
शिवः ककारः । शक्तिः एकारः । कामः ईकारः । क्षितिः
लकारः । अथशब्दः अवसानद्योतकः । रविः हकारः । शीतकिरणः
सकारः । स्मरः ककारः । हंसः हकारः । शक्रः लकारः । 'तदनु च'
इति अवसानं द्योतयति । परा सकारः । मारः ककारः । हरिः लकारः ।
अमी द्वादश वर्णाः । हृल्लेखाभिः हीङ्कारैः, तिसृभिः त्रित्वविशिष्टैः,
अवसानेषु विरामस्थानेषु चतुष्कपञ्चकत्रिकाणामुपरि घटिताः योजिताः,
भजन्ते प्राप्नुपन्ति । वर्णाः ते पूर्वोक्ताः ककारादयः, तव भवत्याः,
जननि ! हे मातः ! नामावयवतां नाम्नः त्रिपुरसुन्दरीमन्त्रस्य अवयवतां
प्रतीकत्वम् ॥
 
अत्रेत्थं पदयोजना – हे जननि ! शिवः शक्तिः कामः क्षितिः अथ
रविः शीतकिरणः स्वरः हंसः शक्रः तदनु च परामारहरयः इत्येते वर्णाः
तिसृभिः हल्लेखाभिः अवसानेषु घटिताः ते वर्णाः तव नामावयवतां भजन्ते ॥
 
अत्रेदमनुसन्धेयम् – शिवः शक्तिः कामः क्षितिरिति वर्णचतुष्टयं
आग्नेयं खण्डम् । रविः शीतकिरणः स्मरः हंसः शक्र इति वर्णपञ्चकं सौरं
 
6
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri