This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
८०
 
मध्ये प्रथमं नित्याद्वयं त्रिकोणविन्दुरूपेण स्थितम् । अवशिष्टास्तु चतुर्दश
नित्याः मन्त्रश्रे अन्तर्भूताः मेखलात्रयम् पुरत्रये बैन्दवत्रिकोणयोरन्तर्भूते ।
एवं नित्यानां चक्रे अन्तर्भावः । इममेवान्तर्भावं मेरुप्रस्तारमाहुः । अत
एव चन्द्रकलाविद्यायाः चक्रविद्यायाः सङ्गत्वं नित्यानां सिद्धम् ।
 
सनन्दनसंहितायां ऋषीन् प्रति सनन्दनवचनम् एतास्तु पोडश-
नित्याः चन्द्रकलायाः चक्रविद्याया अङ्गभूताः । एताश्च पोडशनित्या
स्वरात्मकाः पञ्चदशाक्षरीमन्त्रगत 'ए' कारादिभूत 'अ'कारविसर्गात्मक
'स' काराभ्यां सङ्गृहीता: जीवकलारूपाः चन्दवस्थाने स्थापिताः तत्रैव
अन्तर्भूताः । कादयो मांबसानाः पाशाङ्कुशवीजयुक्तास्सन्तः अष्टारे दशकोण-
द्वये च अन्तर्भूताः । शिष्टास्तु यकारादयो नव वर्णाः द्विरावृत्त्या मन्वश्रे
चतुर्दशकोणेषु चतुर्दश अन्तर्भूनाः, शिंष्ट वर्णचतुष्टयं शिवचक्रचतुष्टयेऽन्त-
र्भूतम् । इममेव कैलासप्रस्तारमाहुः । एवं नित्यानां चक्रविद्याया अङ्गत्वं
प्रतिपादितम् ॥
 
षोडश
 
सनत्कुमारसंहितायामपि चक्रविद्यायां षोडशनित्यानां अङ्गत्वं प्रति-
पादितम् । यथा सनत्कुमारवचनम् - श्रीचक्रस्याङ्गभूताः नित्याः वशिन्या-
दिभिः द्विकंडिकं मेलयित्वा बैन्दवं त्रिकोणं विहाय अष्टभु कोणे वन्तर्भाव्याः ।
मध्ये त्रिपुरसुन्दरी अन्तर्भाव्या । अष्टवर्गास्तु अष्ट वशिन्यादयः,
नित्याः, द्वादश योगिन्त्रः, चतस्रो गन्धाकर्षिण्यादयः- एवं चतुश्चत्वारिं
शत् । अत्र एकां शक्ति विहाय त्रयश्चत्वारिंशत्कोणेषु त्रयश्चत्वारिंशद्देवता
अन्तर्भाव्याः, एकां त्रिपुरसुन्दरीं बैन्दवस्थानादधस्तात्, गन्धाकर्षिण्यादा
यस्तु चतुरेषु इति नित्यानां अङ्गत्वं प्रतिपादितम् । इममेव भूप्रस्ता-
रमाहुः । अष्टानां वशिन्यादीनां द्वादशयोगिनीनां गन्धाकर्षिण्यादीनां नाम-
घेयानि 'सवित्रीभिर्वीचाम्' * इत्यादिश्लोकव्याख्यानावसरे कथितानि ॥३१॥
 
१७ इलोकः.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri