This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
एवमधिकारभेदमजानानाः अमीमांसकाः व्यामुह्यन्ति । तेषामेवायं दोषः, न
पशुपतेः परमेश्वरस्येति ध्येयम् ॥
 
चन्द्रकला विद्याष्टकं श्रीविद्याप्रतिपादकं तन्त्रं- चन्द्रकला, ज्योत्स्नावती
कलानिधिः, कुलार्णवम्, कुलेश्वरी, भुवनेश्वरी, बार्हस्पत्यं, दूर्वासमतं चेति ।
अस्मिन् तन्त्राष्टके त्रैवर्णिकानां शूद्रादीनां च अधिकारोऽस्ति । तत्र
ब्राह्मणादीनधिकृत्य सव्यमार्गेणे प्रादक्षिण्येन सर्वोऽप्यनुष्ठानकलापः प्रतिपादितः ।
शूद्रादीनधिकृत्य अपसव्यमार्गेणे वामाचारो निरूपितः ॥
 
७८
 

 
शुभागमतन्त्रपञ्चके वैदिकमार्गेण अनुष्ठानकलापो निरूपितः । अयं
शुभागमपञ्चकनिरूपितो मार्गः वसिष्ठसनकशुकसनन्दन सनत्कुमारैः पञ्चभिः
मुनिभिः प्रदर्शितः । अयमेव समयाचार इति व्यवडियते । तथैवास्माभिरपि
शुभागमपञ्चकानुासारेण समयमतमवलम्ब्यैव भगवत्पादमतमनुसृत्य व्याख्या
रचिता । चन्द्रकलाविद्याष्टकं तु कुलसमयानुसारित्वेन मिश्रकमित्युच्यते
विद्वद्भिः । चतुष्षष्टितन्त्राणि कुलमार्ग एव -
 
मिश्रकं कौलमार्ग च परित्याज्यं हि शाङ्करि ॥
 
इति ईश्वरवचनात् मिश्रकमतं कैौलमार्ग च परित्याज्यम् । कौलैः मृग्यते
अवलम्ब्यत इति कौलमार्गः कौलमतम् । कर्मणि घन् । अतश्च शुभागम-
पञ्चकमेव वैदिकैरादरणीयम् । केवलसमयमार्ग प्रदर्शनपरत्वात् । समयमार्ग-
स्वरूपं तु 'तवाधारे मूले सह समयया* इत्यादिश्लोकव्याख्यानावसरे
निपुणतरमुपपादयिष्यामः ॥
 
तत्र शुभागमपञ्चके षोडशनित्यानां प्रतिपादनं मूलविद्यायामन्तर्भाव-
मङ्गीकृत्य अङ्गतया । चक्रविद्यायां अङ्गतयैवान्तभवः कथितः । अत एव
चतुष्पष्टिविद्यान्तर्भूतायां चन्द्रज्ञानविद्यायां षोडशनित्याः प्रधानत्वेन प्रति-
* इलोकः ४१.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri