This page has not been fully proofread.

एकत्रिंशः श्लोकः
 
वीणाख्ये- वीणा नाम योगिनी । सा सिद्ध्यतीति वीणाख्यम् । सा
वीणा संभोगयक्षिणीति केचिदाहुः ॥
 
त्रोतले– घुटिकाञ्जनपादुकासिद्धिः । घुटिका पानपात्रम् ॥
त्रोतलोत्तरे- चतुप्पष्टिसहस्रसङ्ख्याकयक्षिणीनां दर्शनम् ॥
 
पञ्चामृतम् – पञ्चानां पृथिव्यादीनां पिण्डाण्डे अमृतं यत्र मरणाभावः
 
प्रतिपादितः तत् पञ्चामृतं तन्त्रम् । तदपि कापालिकमेव ॥
रूपभेदादितन्त्रपञ्चकं मारणहेतुरिति अवैदिकम् ॥
 
सर्वज्ञानादितन्त्रपञ्चकं
 
-
 
कापालिक सिद्धान्तैकदेशि दिगम्बरमतमिति दूरत
 
दिगम्बरैकदेशक्षपणकमतमिति तत्ततोऽपि दूरत
 
एव हेयम् ॥
 
एवं चतुप्षष्टितन्त्राणि परिज्ञातॄणामपि वञ्चकानि । ऐहिकसिद्धिमात्र-
परत्वात् वैदिकमार्गदूराणि । परिज्ञातारोपि ऐहिकफलापेक्षया तत्र कतिचन
प्रवृत्ताः प्रतारिता एवेति रहस्यम् ॥
 
एव हेयम् ॥
 
पूर्वादिदेवीमतपर्यन्तं
 
ननु विप्रलिप्साद्याशयदोषरहितस्य भगवतः परमेश्वरस्य पशुपतेः
कांश्चित्प्रति विप्रलम्भत्वं कथमिति चेत् -
 
1
 
मैवम् – परमेश्वरे परमकारुणिके विप्रलिप्साद्याशयदोषाः न सन्त्येव ।
किन्तु परमेश्वरः पशुपतिः ब्रह्मक्षत्रवैश्यशूद्रजातीयान् मूर्धावसिक्ताद्यनुलोम-
प्रतिलोमजातीयानधिकृत्य तन्त्राणि निर्मितवान् । तत्र त्रैवर्णिकानां चन्द्र-
कलाविद्यासु वक्ष्यमाणास्वधिकारः । 'शूद्रादीनां चतुप्पष्टितन्त्रेष्वधिकारः ।
 
शूद्राणां सङ्कीर्णानां च.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri