This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
मालिनीविद्या–समुद्रयानोपायहेतुः । सापि वैदिकमार्गदूरवर्तिनी ॥
महासंमोहनम् – जाग्रतामपि निद्रा हेतुः । सापि बालजिह्वा-
च्छेदनादिकुमार्गेण साध्येति निषिद्धा ।
 
-
 
७६
 
वामजुष्टमहादेवतन्त्रे-वामाचारप्रवर्तके इति हेये ॥
 
वातुलं, वातुलोत्तरं, कामिक च तन्त्रत्र्यं कर्पणादिप्रतिष्ठान्तविधि-
प्रतिपादकम् । तस्मिन् तन्त्रत्रये कर्पणादिप्रतिष्ठान्ता विधयः एकदेशे
प्रतिपादिताः । स चैकदेशो वैदिकमार्ग एव । अवशिष्टस्तु अवैदिकः ॥
 
हृद्भेदतन्त्रं कापालिकमेव । यद्यपि हृद्भेदतन्त्रे षट्कमलभेदसहस्रार-
प्रवेशौ प्रतिपादितौ, तथापि तस्मिन् तन्त्रे वामाचार एव प्रवृत्त इति
कापालिकमेव तत्तन्त्रम् ॥
 
तन्त्रभेद - गुह्यतन्त्रयोः - प्रकाशन रहस्येन च परकृततन्त्राणां भेद
इति तद्विद्यानुष्ठाने बहुहिंसाप्रसक्तेः तत्तन्त्रद्वयं वैदिकमार्गदूरम् ॥
 
कलावादम् – कलानां चन्द्रकलानां वादः प्रतिपादनं यस्मिन् तन्त्रे
तत् कलावादं वात्स्यायनादिकम् । यद्यपि कामपुरुषार्थत्वेऽपि कलाग्रहण-
मोक्षणदशस्थानग्रहणचन्द्रकलारोपणादीनां कामपुरुषार्थे अनुपयोगात् परदार-
गमनादिनिधिद्धाचारोपदेशाच्च एकदेशे निषिद्धम् । यद्यपि निषिद्धांशः कापा-
लिकतन्त्रं न भवति; तथापि तत्र प्रवर्तमानः पुरुषः अवश्यं कापालिका-
चारो भवतीति कापालिकत्वेन गणना तन्त्रस्य ॥
 
कलासारम्-वर्णोःकर्षविर्धियत्र प्रवर्तते तत् कलासारं वामाचार-
प्रधानम् ॥
 
कुविज कामतम् – घुटिकासिद्धिहेतुः । सोऽपि वामाचारप्रधान एव ॥
तन्त्रोत्तरमते – रससिद्धिः ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri