This page has not been fully proofread.

७५
 
एकात्रंशः श्लोक:
 
महामायाशम्बरतन्त्रं मायाप्रपञ्चनिर्माणफलम् । मायाप्रपञ्चनिर्माणं नाम
सर्वेषां चक्षुरादीनां अन्यथापदार्थग्रहणकारणं, यथा घटस्य पटाकारेण
प्रतिभासनम् ॥
 
योगिनीजा.लशम्बरम्-मायाप्रधानतन्त्रं शम्बरमित्युच्यते । तत्र तन्त्रे
योगिनीनां जलदर्शनम् । तच्च श्मशानादिकुमार्गेण साध्यते ॥
 
तत्त्वशम्बरम् – तत्त्वानां पृथिव्यादीनां शम्बरं महेन्द्रजालविद्या ।
महेन्द्रजाल विद्यायां पृथिवीतत्त्वे उदकतत्त्वादीनि उदकतत्त्वं पृथिव्यादीनि
तत्त्वानि एवमन्योन्यं प्रतिभासन्ते ॥
 
भैरवाष्टकं नाम-सिद्धभैरव बटुकभैरव - कङ्कालभैरव – कालभैरव-
कालाग्निभैरव – योगिनीभैरव – महाभैरव-शक्तिभैरवप्रधानानि अष्टतन्त्राणि
निध्याद्यैहिकफलसाधनान्यपि कापालिकमतत्वात् वैदिकमार्गदूराणि ॥
 
-
 
बहुरूपाष्टकम् – शक्तेस्समुद्भतानि रूपाणि ब्राह्मी, माहेश्वरी, कौमारी,
चैष्णवी, बाराही, माहेन्द्री, चामुण्डा, शिवदूती चेत्यष्टौ रूपाणि । एतान्य
वलम्ब्य प्रवृत्तानि तन्त्राणि अष्टौ, तेषां गणः अष्टकम् । एतदपि वेदमार्ग-
दूरत्वात् हेयम् । अत्र श्रीविद्यायाः प्रसङ्गः बहुरूपाष्टकप्रस्तावे प्रसक्तानु-
प्रसक्त्या पातित इति न कश्चिद्दोषः ॥
 
यमलाष्टकम् - यमलो नाम कामसिद्धान्तः ? तत्प्रतिपादकानि तन्त्राणि
यामलान्यष्टौ । तेषां गणः यामलाष्टकम् । तदपि वैदिकमार्गदूरम् । यद्यपि
चतुष्षष्टितन्त्राणां यमलत्वं लोकव्यवहारसिद्धम् ; तत्तु अवैदिकत्वसाम्यात्
उपचारादिति ध्येयम् ॥
 
चन्द्रज्ञानम्-चन्द्रज्ञान विद्यायां षोडशनित्याप्रतिपादनम् । नित्याप्रति-
पादकत्वेऽपि कापालिकमतान्तःपातित्वात् हेयमेव । उपादेयचन्द्रज्ञान विद्या
चतुष्षष्टितन्त्रातीता ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri