This page has not been fully proofread.

७४
 
सौन्दर्यलहरी सब्याख्या
बहुरूपाष्टकं चैव यामलाष्टकमेव च ॥
चन्द्रज्ञानं मालिनी च महासंमोहनं तथा ।
वामजुष्टं महादेवं वातुलं चातुलोत्तरम् ॥
हृद्भेदं तन्त्रभेदं च गुह्ययन्त्रं च कामिकम् ।
कलावादं कलासारं तथान्यत् कुब्जिकामतम् ॥
तन्त्रोत्तरं च वीणाख्यं त्रोतलं त्रोतलोत्तरम् ।
पञ्चामृतं रूपभेदं भूतोड्डामरमेव च ॥
कुलसारं कुलोड्डीशं कुलचूडामणि तथा ।
सर्वज्ञानोत्तरं देव महाकालीमतं तथा ॥
अरुणेशं' मोदिनीशं विकुण्ठेश्वरमेव च ।
पूर्वपश्चिमदक्षं च उत्तरं च निरुत्तरम् ॥
विमलं विमलोत्यं च देवीमतमतः परम् ॥
 
इत्येवं चतुष्षष्टितन्त्राणि पार्वतीं प्रति कथितानि । एतानि तन्त्राणि जगतां
अतिसन्धानकारणानि विनाशहेतुभूतानि वैदिकमार्गदूरवर्तित्वात् । अत
एवोक्तं भगवत्पादैः 'चंतुष्षष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनम् सकल-
विडल्लोकप्रतारकाणि इमानि चतुष्षष्टितन्त्राणि इति । तथाहि -
 
1. महालक्ष्मीमतं चैव सिद्धयोगेश्वरीमतम् ।
कुरूपिकामतं देवरूपिकामतमेव च ॥
सर्ववीरमतं चैव विमलामतमुत्तमम् ।
पूर्वपश्चिमदक्ष च उत्तरं च निरुत्तरम् ॥
तन्त्र वैशेषिकं ज्ञान वीरावलि तथा परम् ।
अरुणेश मोहिनीशं विशुद्धेश्वरमेव च ॥
इति वामकेश्वरतन्त्रपाठ
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri