This page has not been fully proofread.

एकत्रिंशः श्लोकः
 
७३
 
,
 
सिद्धान्तैः । अत्र चतुष्पष्टिशब्दस्य सङ्ख्येयपरत्वात् एकवचनान्तत्वम् ।
सकलं समस्तं, अतिसंधाय अपवाह्य वञ्चयित्वा, भुवनं प्रपञ्च स्थितः
निवृत्तव्यापार; तत्तत्सिद्धिग्रसव परतन्त्रैः ताश्च ताश्च सिद्धयः तत्तत्सिद्धयः
चतुष्पष्टितन्त्रेषु एकस्मिन् एकस्मिन् तन्त्रे प्रयोजनभूताः एकैकसिद्धय इत्यर्थः,
तासां प्रसवः उत्पत्तिः, तत्र परतन्त्रैः । यद्वा-तेषां तेषां सिद्धयः तत्तत्सि-
द्धयः, येषां येषां साधकानां स्वस्वाभिमताः सिद्धयः तासां प्रसवपरतन्त्रैः
उत्पादकैकनियतैः । पशुपति: पशूनां प्राणिनां पतिः, पश्यन्तीति पशवः
यहा- इन्द्रियाण्येव पश्यन्तीति व्युत्पत्त्या पशवः, तान् पशून् पाति
रक्षतीति पशुपति: जीवः, शिव एव जीव इति पशुपतिः शिवः पुनः
भूयः, त्वनिर्बन्धात् त्वया निर्बन्धः तस्मात् / चतुष्षष्टितन्त्रप्रतिपादित -
सर्वसिद्धान्तरूपसकलपुरुषार्थसाधनभूततन्त्रान्तरोपदेशस्वीकारव्यग्रया
भवत्या कृतो निर्वन्ध इति यावत् । यद्वा - त्वदिति भिन्न पदं पञ्चम्यन्तम् ।
अखिल पुरुषार्थैकघटनास्वतन्त्र अखिलानां पुरुषार्थानां मुख्यत्वेन घटनायां
स्वतन्त्रं स्वयमेव प्रधानं, ते भवत्याः, तन्त्रं, क्षितितलं भूतलं अवाती-
तरत् । तरते चङि रूपम् । गत्यर्थत्वात् 'गतिबुद्धि' इत्यादिसूत्रेण
द्विकर्मकत्वम् । इदं वक्ष्यमाणम् ॥
 
देव्या
 
अत्रेत्थं पदयोजना - हे भगवति ! पशुपति: सकलं भुवनं तत्तत्सि-
द्विप्रसवपरतन्त्रैः चतुष्षष्ट्या तन्त्रैः अतिसन्धाय स्थितः । पुनस्त्वन्निर्बन्धात्
अखिलपुरुषार्थैकघटनास्वतन्त्रं ते तन्त्रमिदं क्षितितलमवातीतरत् ॥
 
चतुष्पष्टितन्त्राणि चतुश्शत्याम्-
चतुष्षष्टिश्च तन्त्राणि मातॄणामुत्तमानि च ।
महामायाशम्बरं च योगिनीजालशम्बरम् ॥
तत्त्वशम्बरकं चैव भैरवाष्टकमेव च ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri