This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
७२
 
निषेव्ये ! संसेव्ये ! नित्ये !
 
आद्यन्तर हिते ! त्वामेतादृशीम्, अहमिति
अहंभावनया, सदा सर्वकालं, भावयति ध्यानं करोति, यः साधकः,
किमाश्चर्य नास्त्याश्चर्य, तस्य साधकस्य त्रिनयनसमृद्धिं त्रीणि नयनानि
मार्ग: 'प्रापका: सूर्यचन्द्राझिरूपाः यस्य दर्शनायेति स त्रिनयन: । यद्वा-
इडापिङ्गळासुषुम्नामार्गाः त्रयः तद्दर्शने उपाया इति त्रिनयनः सदाशिवः ।
यद्वा—त्रीणि नयनानि चक्षूंपि यस्य सः त्रिनयनः । क्षुम्नादित्वात् णत्वा-
भावः । तस्य समृद्धिं ऐश्वर्यं तृणयतः तृर्णाकुर्वतः, महासंवर्ताग्निः प्रलय-
कालाग्निः विरचयति करोति । निराजनविधिं नीराजनानुष्ठानम् । तस्य
नीराजनक्रियायामवस्थितः प्रलयाग्झिरपीत्यर्थः ॥
 
-
 
अत्रेत्थं पदयोजना — हे नित्ये ! निषेव्ये ! स्वदेहोद्भूताभिः घृणिभिः
अणिमाद्याभिः अभितोऽवस्थिताभिः * परिवृतां त्वां यः साधकः अहमिति
सदा भावयति, त्रिनयनसमृद्धिं तृणेयतः तस्य महासंवर्ताग्निः नीराजनविधिं
विरचयतीत्यत्र किमाश्चर्यम् ?
 
-
 
अयं भावः – अहमिति भावनया तादात्म्यसिद्धौ भगवत्याः तन्नी-
राजनविधिराश्चर्यकरो न भवतीति ॥ ३० ॥
 
चतुष्षष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनं
स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः ।
पुनस्त्वभिर्वन्धादखिल पुरुषार्थैकघटना-
स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् ॥ ३१ ॥
 
चतुष्षष्ट्या चतुप्पष्टिसङ्ख्याकैः महामायाशम्बरादिभिः,
 
1
 
प्रकाराः
 
तस्याम्.
 
↑ 'निस्यामिश्च' इति प. शु. - कोशयोः
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
तन्त्रैः