This page has not been fully proofread.

त्रिंशः श्लोक:
 
किरीटं मकुटं, वैरिश्च विरिञ्चिबन्धि, परिहर दूरत एव कुरु,
पुरः अग्रभागे । कैटभभिद: कैटभासुरं मिनत्तीति कैटभभित् तस्य विष्णोः,
कठोरे कोटीरे मकुटाञ्चले, स्खलसि । अत्र काकुः अनुसन्धेया । जहि
त्यज, जम्भारिमकुटं जम्भारे: इन्द्रस्य मकुटं किरीटम् । प्रणश्रेषु प्रकर्षेण
दण्डवत् नतेषु एतेषु विरिञ्चिकैटभजिज्जम्भारिषु, प्रसभं अतिशीघ्र ससंभ्र-
ममित्यर्थः । उपयातस्य समागतस्य, भवनं मन्दिरं, भवस्य परमेश्वरस्य,
अभ्युत्थाने अभिमुखोत्थितौ, तव परिजनोक्तिः सेवकानां वचनं, विजयते
सवोत्कर्षेण वर्तते ॥
 
७१
 
अत्रेत्थं पदयोजना - हे भभवति ! पुरः वैरिश्चं किरीटं परिहर, कैट-
भमिद: कठोरे कोटीरे स्खलसि, जम्भारिमकुटं जहि, (इत्येवंरूपा)
एतेषु प्रणश्रेषु सत्सु भवनमुपयातस्य भवस्य प्रसभं तवाभ्युत्थाने परिजनो-
क्तिर्विजयते । अत्र उदातालङ्कारः 'समृद्धिमद्वस्तुवर्णनमुदात्तम्' इति
 
लक्षणात् ॥ २९ ॥
 
स्वदेहोद्भताभिर्घृणिभिरणिमाद्याभिरभितः
 
निषेव्ये नित्ये त्वामहमिति सदा भावयति यः ।
किमाश्चर्य तस्य त्रिनयनसमृद्धिं तृणयतः
 
महासंवर्ताग्निर्विरचयति नीराजनविधिम् ॥ ३० ॥
स्वदेहोद्भताभिः स्वस्याः देहः स्वदेहः तस्मादुद्धताभिः, अत्र
देहशब्दो देहावयवं चरणं लक्षयति । घृणिभिः मयूखैः, मयूखानां
चरणोद्भवत्वमुक्तं प्राक् । अणिमाद्याभिः अणिमागरिमेत्यादिभिः अष्ट-
सिद्धिभिः, अभितः आवरणत्वेन अवस्थिताभि: * युक्तामिति शेषः ।
 
* 'नित्यामि: त्रिपुरसुन्दर्यादिमिः' इति प. श.-कोशयोः
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri