2023-02-16 08:26:15 by ambuda-bot
This page has not been fully proofread.
सौन्दर्यलहरी सव्याख्या
'विरिञ्चिः पञ्चत्वम् ' इति श्लोकेन यदुक्तं तदेव सोपस्करमाह-
सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं
विपद्यन्ते विश्व विधिशतमखाद्या दिविषदः ।
करालं यत्क्ष्वेलं कबलितवतः कालकलना
न शम्भोस्तन्मूलं तब जननि ताटङ्कमहिमा ॥ २८ ॥
सुधां अमृतम्, अपिः विरोधे, आस्वाद्य पीत्वा, प्रतिभयजरामृत्युहरिणीं
प्रतिभयौ भयङ्करौ जरामृत्यू जरामरणे हरतीति प्रतिभयजरामृत्युहरिणी
ताम् । विपद्यन्ते म्रियन्ते, विश्वे अखिलाः, विधिशतमखाद्याः विधिः
ब्रह्मा, शतमखो देवेन्द्रः, तौ आयौ प्रभृतिभूतौ येषां ते, दिविषदः सुराः,
करालं अत्युग्रं, यत् क्ष्वेलं विषं कालकूटं, कबलितवतः भक्षितवतः,
कालकलना कालेन अवसानकालेना कलना अवच्छेदः, मरणमिति यावत्,
न शम्भोः तन्मूलं तस्य कालकलनाभावस्य मूलं कारणं तव भवत्याः,
जननि ! हे मातः ! ताटङ्कमहिमा ताटङ्कस्य कर्णाभरणस्य सामर्थ्यम् ॥
अत्रेत्थं पदयोजना — हे जननि ! विश्व विधिशतमखाद्याः दिविषदः
प्रतिभयजरामृत्युहरिणीं सुधां आस्वाद्यापि विपद्यन्ते । करालं क्ष्वेलं कबलितवतः
शम्भोः कालकलना नास्तीति यत् तन्मूलं तव ताटङ्कमहिमा ।
-
अयं भावः-
यदि शम्भोरपि विपत्तिस्यात् ताटङ्कच्युतिः तर्हि स्यात् ।
ताटङ्कच्यावकत्वं कालस्य नास्ति, कालोत्पत्तिस्थितिलयानां ताटङ्केकनियतत्वादिति
देव्याः पातिव्रत्यमहिमा सर्वातिशायी इति ॥ २८ ॥
किरीटं वैरिश्चं परिहर पुरः कैटभमिदः
कठोरे कोटीरे स्खलसि जहि जम्भरिमकुटम् ।
प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं
भवस्याभ्युत्थाने तब परिजनोक्तिर्विजयते ॥ २९ ॥
CC-0. Jangamwadi Math Collection. Digitized by eGangotri