This page has not been fully proofread.

सप्तविंशः श्लोकः
 
६९
 
-
 
अत्रेत्थं पदयोजना — हे भगवति ! आत्मार्पणदृशा जपः जल्पः,
सकलमपि शिल्पं मुद्रा विरचना, गतिः प्रादक्षिण्यक्रमणं, अशनादि आहुति-
विधिः, संवेशः प्रणामः, अखिल सुख मे यहिलसितं च तव सपर्या पर्यायः भवतु ॥
 
अयमर्थ:- जल्पादीनां जपादिरूपता यथार्ह कल्पिता । एवं नयनो-
न्मीलननिमीलननिमेषोन्मेषाङ्गभङ्गजृम्भादीनां यथार्ह सपर्या पर्यायता ऊह्या ।
शब्दादेः सुखकरस्य वस्तुनः षोडशोपचारव्यतिरेकेण आत्मार्पणबुद्धया
त्याग एव सपर्या पर्यायः, न तु स्वीकृतानाम् । यद्वा – शब्दादीनां
यादृच्छिकसम्भवेन सुखप्रादुर्भावे तत्सुखं मच्छेषं न भवति किन्तु सदाशिवा-
येत्यर्पणं सपर्या पर्यायः ॥
 

 
अत्रेदमनुसन्धेयम्-समयिनां मते समयस्य सांदाख्यतत्त्वत्य सपर्या
सहस्रदलकमल एव, न तु बाह्ये पीठादौ । ये ये समयिनो योगीश्वरा जीव-
न्मुक्ताः संसारयात्रा मनुवर्तमानाः सादाख्यतत्त्व मनुचिन्तयन्तः आत्मैकप्रवणाः
वर्तन्ते तेषां ' जपो जल्पश्शिल्पम्' इत्यादिना सपर्या प्रकारो निरूपितः ।
ये तु समयिनो योगीश्वराः विजने गुहान्तरे वा बद्धपद्मासनाः निगृहीते-
न्द्रियाः सादाख्त्यतत्त्वध्यानैकनिष्ठाः बर्तन्ते तेषां वक्ष्यमाणचतुर्विधषड्डिधै-
क्यानुसन्धानमेव भगवत्याः सपर्येति अर्थादुक्तं भवति । अतश्च पक्षद्वयेऽपि
बाह्यपूजायां तक्रियाकलापे च 'तत्सम्पादनायां च क्लेशो नास्ति समयिना-
मिति रहस्यम् । यतु चन्द्रज्ञान विद्यायामुक्तम्-
सूर्यमण्डलमध्यस्थां देवीं त्रिपुरसुन्दरीम् ।
 
पाशाङ्कुशधनुर्बाणान् धारयन्तीं प्रपूजयेत् ॥ इति ॥
बाह्यपूजाप्रकारकथनं, तत्तु समयैकदेशिमत मिति पुरस्तात्प्रपञ्चयते ॥ २७ ॥
 
तत्सम्पादनायासलेशो नास्ति,
 
1
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri