This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
अत्रेत्थं पढ़योजना — विरिञ्चिः पञ्चत्वं व्रजति । हरिः विरतिं
आप्नोति । कीनाशः विनाशं भजति । धनदः निधनं याति । माहेन्द्री
विततिरपि सम्मीलितदृशा वितन्द्री । अस्मिन् महासंहारे सति ! असौ
त्वत्पतिः हरः विहरति ।
 
अयं भावः – सर्वेषां अधिकारिपुरुषाणां च संहारे ब्रह्माण्डभङ्गसमये
तब पत्युर्यत् विहरणं तत् तब पातिव्रत्यमहिमायत्तमिति ॥ २६ ॥
जपो जल्पः शिल्पं सकलमपि मुद्राविरचना
गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः ।
प्रणामः संवेशः सुखमखिलमात्मार्पणदृशा
 
सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥ २७ ॥
 
जपः मन्त्रजपः, 'उपांश्चैव क्रियते' इत्यादिभिश्चोदितः सः, जल्पः
यादृच्छिक सल्लापः । शिल्पं सकलमपि हस्तविन्यासादिक्रियानिचयः, मुद्रा-
विरचना मुद्राणां संक्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशखेचरीबी जयोनित्रिख-
ण्डात्मकानां विरचना करणम् । गतिः यादृच्छिकगमन, प्रादक्षिण्यक्रमणं
प्रदक्षिणक्रिया । अशनादि ओदनादियत्किञ्चित्पदार्थचर्वणं, आहुतिविधिः
आहुतीनां देवतोद्देशेन हविः प्रक्षेपणात्मकानां विधिः करणम् । प्रणामः
नमस्कारः, संवेशः यादृच्छिकदण्डवल्लुठनम्, जल्पशिल्पव्यतिरेकेण
अङ्गभङ्गनयनोन्मीलननिमीलनादिकं च सुख सुखकरं वस्तु अखिलं समस्तं
शब्दस्पर्शरूपरसगन्धादिकं, आत्मार्पणदृशा आत्मार्पणबुद्धया, सपर्यापर्यायः
• सपर्या पूजा तस्याः पर्यायः रूपान्तरं, सपर्यवेत्यर्थः, तव ते, भवतु भूयात् ।
यत् प्रसिद्धं, मे मम, विलसितं विलासः ॥
 
,
 
2 ईश्वराणामित्यधिकम्.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri