This page has not been fully proofread.

षाङ्कुशः इलोकः
 
उपसिंहासनसमीपे, स्थिताः वर्तन्ते स्म । हि यस्मात्, एते घातृहरिरुद्राः
अधिकारिपुरुषाः शश्वत् अनवरतं, मुकुलितकरोत्तंसमकुटा: मुकुलिताः
कृताञ्जलयः करा एव उत्तंसाः तद्युक्ताः मकुटाः येषां ते ॥
 
अत्रेत्थं पदयोजना – हे शिवे ! तव त्रिगुणजनितानां त्रयाणामपि
देवानां तव चरणयोः या पूजा विरचिता भवेत् सैव पूजा । तथाहि
त्वत्पादोद्वहनमणिपीठस्य निकटे हि यस्मात् मुकुलितकरोत्तंसमकुटाः शश्वदेते
स्थिताः ॥
 
अयं भावः – भगवन्याः पादपीठसेवा पूजामात्रेण न लभ्यते, अपि
तु भगवत्याः प्रसादवशादेवेति ॥ २५ ॥
 
-
 
विरिञ्चिः पञ्चत्वं व्रजति हरिरामोति विरतिं
 
विनाशं कीनाशो भजति धनदो याति निधनम् ।.
वितन्द्री माहेन्द्री विततिरिपि सम्मीलितहशा
 
महासंहारेऽस्मिन् विहरति सति त्वत्पतिरसौ ॥ २६ ॥
विरिञ्चिः ब्रह्मा, पञ्चत्वं पञ्चभूतानां व्यष्टिरूपतां, मरणमिति यावत्,
व्रजति याति । हरिः विष्णुः, आप्नोति प्राप्नोति, विरतिं उपरतिं,
मरणमिति यावत् । विनाशं मृर्ति, कीनाशः यमः भजति । धनदः
कुबेरः, निधनं मरणं, याति प्राप्नोति । वितन्द्री विशेषण तन्द्री प्रमीला
जाड्यं यस्यास्सा, निद्राणेत्यर्थः, मान्हेद्री महेन्द्रस्येयं माहेन्द्री, चतुर्दशानां
मनूनां इन्द्राणां विततिरपि सङ्घोऽपि, सम्मीलितहशा सम्मीलिता इशा
दृष्टियस्याः सा । 'हलन्तादपि टाबियते' इति टाप् । यद्वा सम्मीलित-
दृशा करणेन वितन्द्रीमाहेन्द्री । महासंहारे कल्पान्ते, अस्मिन् विहरति
विशृङ्खलतया वर्तते । हे सति ! प्रतिव्रते ! त्वत्पतिः सदाशिवः हरः,
असौ सहस्रदलकमले परिदृश्यमानः ॥
 

 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri