This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
शिवशब्देन वाच्यवाचकयोः अभेदोपचारात् सदाशिवरूपं तत्त्वं उपचर्यते ।
सर्व तदिदं पूर्वोक्तं धातृहरिरुद्रेशानात्मकं तत्त्वचतुष्टयं अनुगृह्णाति ।
चकारः शङ्काच्छेदे । शिवः सदाशिवः । कथमनुगृह्णातीत्याशङ्कायामाह-
तावाज्ञामालम्व्य इति । तव भवत्याः, क्षणचलितयोः भ्रलतिकयोः
क्षणमात्रं चलितयोः, भ्रलतिका चलनेन विज्ञेयामाज्ञामालम्ब्येत्यर्थः । भवद्भ-
विक्षेपमात्रेण घातृहरिरुद्रेशानात्मकं तत्त्वचतुष्टयमुत्पन्नं, अकुटीकरणमात्रेण
तद्विनष्टमिति अनेककोटिब्रह्माण्डानामुत्पादने संहरणे च त्वविक्षेपमात्र
रूपा शक्तिः साचिव्यं सदाशिवस्य करोतीति तात्पर्यम् ॥
 
अत्रेत्थं पदयोजना — हे भगवति ! धाता जगत् सूते । हरिः जगत्
अवति । रुद्रः जगत् क्षपयते । ईशः एतत् तिरस्कुर्वन् स्वमपि वपुः
तिरयति । सदापूर्वः शिवः सर्व तदिदं तव क्षणचलितयोः भ्रलतिकयोः
आज्ञामालन्ब्य अनुगृह्णाति ॥ २४ ॥
 
-
 
त्रयाणां देवानां त्रिगुणजनितानां तव शिवे
भवेपूजा पूजा तव चरणयोर्या विरचिता ।
तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे
 
स्थिता होते शश्वन्मुकुलितकरोत्तंसमकुटाः ॥ २५ ॥
त्रयाणां देवानां घातृहरिरुद्राणामित्यर्थः । त्रिगुणजनितानां
 
""
 
सत्त्वरजस्तमः प्रभवानाम् तव भवत्याः, हे शिवे ! शिवमहिषि ! भवेत्
भवत्येव । प्राप्तकाले लिङ् । पूजा सपर्या, सैव पूजा नान्येति द्वितीय-
पूजाशब्दस्यार्थः । तव चरणयोः या पूजा विरचिता निर्मिता । युक्तं
चैतदित्याह—तथाहीत्यादिना । तथाहि युक्तमेतत् । त्वत्पादोद्वहनमणि -
पीठस्य तव पादयोः उद्वहनार्थ यन्मणिपीठं परिकल्पितं तस्य निकटे
 

 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri