This page has not been fully proofread.

चतुर्विंश: श्लोक:
 
६५
 
अत्रेत्थं पदयो जना — हे भगवति ! शम्भोवमं वपुः त्वया हृत्वा
अपरितृप्तेन मनसा अपरमपि शरीराधै हृतमभूदिति शङ्के; यत् एतत्
त्वद्रपं सकलमरुणाभं त्रिनयनं कुचाभ्यामान कुटिलशशिचूडालमकुटम् ॥
 
-
 
अयमर्थः— भगवत्या शम्भोः एकस्मिन्न अपहृते अपरार्धस्याप्यपहार
उत्प्रेक्ष्यते । यद्वा — उत्तरकौलसिद्धान्तप्रतिपादकोऽयं श्लोकः । उत्तरकौल-
सिद्धान्ते शक्तितत्वात् अन्यत् शिवतत्वं नास्ति । अतश्च शिवतत्त्वं
शक्तितत्वे अन्तर्भूतमिति तदेव उपास्यमिति प्रस्तुतम् । एतच्च 'मनस्त्वं
व्योम त्वम् * इति श्लोकव्याख्यानावसरे, तवाधारे मूले " इति श्लोक-
व्याख्यानावसरे च निपुणतरमुपपादयिष्यामः ॥ २३ ॥
जगत्सूते धाता हरिरवति रुद्रः क्षपयते
 
तिरस्कुर्वन्नेतत्स्वमपि वपुरी शस्तिरयति ।
सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिवः
 
तवाज्ञामालम्ब्य क्षणचलितयोर्मूलतिकयोः ॥ २४ ॥
 
जगत् स्थावरजङ्गमात्मकं जगत्, सुते सृजति, धाता स्रष्टा । हरिः
विष्णुः, अवति रक्षति । रुद्रः क्षपयते संहरति । धातृहरिरुद्राः सृष्टि-
स्थिति—लयाधिकारिणः । तिरस्कुर्वन् उपसंहरन्, एतत् धातृहरिरुवात्मकं
त्रितयं, स्वमपि स्वकीयमपि वपुः देहं, ईश: महेश्वरतत्त्वं, तिरयति
अन्तर्हितं करोति । ईश्वरः धातृहरिरुद्रान् आत्मन्यारोप्य स्वयमपि
सदाशिवतत्त्वे अन्तर्भूत इत्यर्थः । अनेन ब्रह्माण्डप्रलय उक्तः । तदनन्तरं
ब्रह्माण्डोत्पिपित्सा सदाशिवस्य जायते । तदानीमाह-सदापूर्व इति ।
सदाशब्दः पूर्वः यस्य शिवशब्दस्य सः सदापूर्वः शिवशब्दः । तेन सदा-
लयकारिणः-
*
 
३५ श्लोकः. + ४९ श्लोक:-
5
 
1
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri