This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
-
 
अयमर्थः - 'भवानि त्वं दासे मयि' इत्यादिवाक्यप्रतीके 'भवानि त्वं'
इति पद 'भवानि' इति पदस्य लोडुत्तमपुरुषैकवचनान्तत्वमवगम्य
तत्सामानाधिकरण्येन त्वं पदस्यान्वये महावाक्यप्रयोगोऽनेन साधकेन प्रयुक्त
इति मत्वा महावाक्यफलं तादात्म्यं दिशति भगवती, जपहोमाद्युपासना-
विधिभ्यः तादात्म्योपासनायाः सद्यः फलदायित्वात्
 
अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः ॥
 
इति न्यायेन अविवक्षया प्रयुक्तमपि महावाक्यं फलदायकमिति, नापि
अविमृश्यकारित्वं देव्या इति रहस्यम् ॥ २२ ॥
 
त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
शरीरार्ध शम्भोरपरमपि शङ्के हृतमभूत् ।
यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं
 
कुचाभ्यामानग्रं कुटिलशशिचूडालमकुटम् ॥ २३ ॥
 
त्वया भवत्या, हृत्वा अपहृत्य, वामं वामार्घ, वपुः शरीरं, अपरि-
तृप्तेन असन्तुष्टेन, मनसा अन्तःकरणेन, शरीराधे शम्भोरपरमपि
दक्षिणमपि, शङ्के मन्ये, हृतं गृहींतं, अभूत् । यत् यस्मात् एतत् हृदय-
कमलान्तःप्रतिभासि, त्वद्रूपं तब शरीरं, सकलं कृत्स्नं वामदक्षिणभागात्मकं,
अरुणामं अरुणस्य प्रातः कालसूर्यस्यामेवामा यस्य तत् । यहा-अरुणा
रक्तवर्णा आभा प्रभा यस्य तत् अरुणाभम् । त्रिनयनं नयनत्रययुक्तं,
कुचाम्यामानम्रं स्तनाभ्यामीपत्नत्र कुटिंलशशिचूडालमकुटं कुटिलश शिना
वक्रचन्द्रकलया चूडालं चूडावन्तं मकुटं यस्य तत् ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri