2023-02-16 08:26:13 by ambuda-bot
This page has not been fully proofread.
द्वाविंशः लोकः
सुखविशेषः, तस्य लहरीं उद्रेकं उद्रिक्तपरमानन्दं सादाख्यकलामृतानुभव-
जनितं, सर्वदा सम्पादयन्तीत्यर्थः ॥
६३
अत्रेत्थं पदयोजना - हे भगवति ! तटिल्लेखातन्वीं तपनशशिवैश्वानर-
मयीं निषण्णां पणां कमलानामप्युपरि महापद्माटव्यां निषण्णां तव कलां
मृदितमलमायेन मनसा पश्यन्तो महान्तः परमाहादलहरीं दधति ॥ २१ ॥
भवानि त्वं दासे मयि वितर दृष्टिं सकरुणां
इति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः ।
तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं
मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम् ॥ २२ ॥
हे भवानि ! भवस्य पत्नि ! त्वं भवती, दासे मयि दासभूते
किङ्करे मयि, वितर देहि । दृष्टिं कटाक्षं, सकरुणां करुणायुक्तां, इति
एवंप्रकारेण, स्तोतुं स्तोत्रं कर्तुं, वाञ्छन् इच्छन्, कथयति वदति ।
भवानि त्वमिति 'भवानि त्वं दासे मयि वितर दृष्टि सकरुणाम्' इति
वाक्यप्रतीकं 'भवानि त्वं' इत्येवं यः साधकः तदैव 'भवानि त्वम्' इति
वाक्यैकदेशोच्चारणसमय एव, त्वं भवती तस्मै वाक्यैकदेशोच्चारकाय,
दिशसि ददासि । निजसायुज्यपदवीं निजस्य आत्मनः सायुज्यपदवीं
तादात्म्यम् । मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदां मुकुन्दो विष्णुः, ब्रह्मा
द्रुहिणः, इन्द्रः आखण्डलः, तेषां स्फुटं यथा भवति तथा मकुटै: नीराजिते
निराजनविधिक्रियाञ्चिते पदे पदाम्बुजे यस्यास्ताम् ॥
.
अत्रेत्थं पदयोजना - हे भवानि ! त्वं दासे मयि सकरुणां दृष्टिं
वितरेति स्तोतुं वाञ्छन् भवानि त्वमिति यः कथयति तस्मै तदैव त्वं
मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदां निजसायुज्यपदवीं दिशसि ॥
CC-0. Jangamwadi Math Collection. Digitized by eGangotri