This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
अतश्च प्रातीतिकमन्वयं – यथा शकुन्ताधिपः सर्पाणां दर्प शमयति
एवं साघकेन्द्रः ज्वरप्लुष्टान् सुखयतीति - तिरस्कृत्य, साधकेन्द्रो ज्वरप्लुष्टान्
संर्पाणां दर्पमपि शकुन्ताधिप इवेति आश्रित इति अनुसन्धेयम् ॥ २० ॥
 
तटिल्लखातन्वीं तपनशशिवैश्वानरमयीं
 
निषण्णां पण्णामप्युपरि कमलानां तव कलाम् ।
महापद्माटव्यां मृदितमलमायेन मनसा
 
महान्तः पश्यन्तो दधति परमाहादलहरीम् ॥ २१ ॥
 

 
तटिल्लखा विद्युल्लेखा, तद्वत् तन्वी दीर्घसूक्ष्मा ज्योतिर्मयी क्षण-
प्रभा च ताम् । स्थिरसौदामिन्याः क्षणप्रभात्वं आज्ञाचक्रे क्षणमात्रदर्शनात् ।
एतच्च आज्ञाशब्दार्थनिरूपणावसरें पूर्वमेव प्रतिपादितम् । तपनशशिवैश्वा-
नरमयीं सूर्यचन्द्रानलात्मिकाम्। एतच्च त्रिखण्डनिरूपणावसरे सम्यनिरूपितम्।
निषण्णां आसीनाम्, पण्णां षट्सङ्ख्याकानाम् अपिः समुच्चये प्रन्धित्रयं
ससुच्चिनोति । ग्रन्थित्रयस्यापि । उपरि कमलानां पद्मानाम्, षट्चक्राणां
आधारस्वाधिष्ठानमणिपूरकानाहतविशुद्धयाज्ञात्मकानां कमलस्वरूपत्वं पूर्वमेव
निरूपितम् । तव भवत्याः, कलां सादाख्यां बैन्दवीकलाम्। महापद्माटव्यां
महान्ति बहूनि पद्मानि पद्मदलानि सहस्रसंख्याकानि, तान्येव अटवी,
तस्यां सहस्रदलकमलकर्णिकायामित्यर्थः । यद्वा-महापद्म सहस्रदलकमलं,
तदेव अटवी, तस्याम् । मृदितमलमायेन मृदिताः क्षपिता: मला: 9
कामादयः, मायाऽविद्याऽस्मिताहङ्कारादयः यस्य तन् तेन, मनसा अन्तःकर -
णेन, महान्तः योगीश्वराः, पश्यन्तः सादाख्यकलासुधाधारानिप्यन्दं अनु-
भवन्तः, दधति अवरुन्धते । परमाहादलहरीं परमः निरतिशयः, आह्वादः
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri