This page has not been fully proofread.

विंशः श्लोकः
 
4
 
हृदये, त्वां भवतीं, आधत्ते स्मरतीति यावत् । हिमकरशिलामूर्ति
हिमकरशिलायाः चन्द्रकान्तमणेः मूर्ति पुत्थलिकां सालभञ्जिकां चन्द्रकान्त-
मणिनिर्मितदेहां, इव यः साधकः, सः साधकः, सर्पाणां दर्पं शमयति
शकुन्ताधिपः शकुन्तानां पक्षिणां अधिपो गरुत्मान् इव । इवेति सम्भावना-
याम्- गरुत्मदाकाराकारित्वमात्रं न भवति, अपि तु तत्कार्यकारित्वं सम्भा-
वितमिति, गुरुत्मान् भूत्वा, प्रत्यक्षो गरुत्मानिवेत्यर्थः । ज्वरप्लुष्टान् ज्वरेण
प्लुष्टान् सन्तप्तान्, दृष्ट्या वीक्षणेन । अत्र दृष्टिप्रयोगः कथितः । सुख-
यति सुखिनः करोति । 'तत्करोति' इति णिचि 'णाविष्ठवत्प्रातिपदिकस्य'
इति टिलोपः । एवं सुखयतीति रूपं सिद्धम् । सुधाधारसिरया सुधायाः
आधारभूता सिरा अमृतस्यन्दिनी नाडी । यहा - सुधा धारात्मिका यस्यां
सिरायामिति बहुव्रीहिः । 'स्त्रिया: पुंवत् भाषितपुंस्कात्' इत्यादिना पुंव-
द्भावः ? । सुधाधारा चासौ सिरा च तया । सुधासारसिरयेति वा पाठः-
सुधासारात्मिका सिरा ॥
 
अत्रेत्थं पदयोजना-हे देवि ! यः साधकः अङ्गेभ्यः किरणंनिकुरुम्बा-
मृतरसं किरन्तीं हिमकरशिलामूर्तिमिव हृदि त्वां आधत्ते, सः शकुन्ता धिप
इव दृष्ट्या सर्पाणां दर्प शमयति । सुधाधारसिरया दृष्ट्या ज्वरप्लुष्टान्
सुखयति ॥
 
अनेन श्लोकेन गारुडप्रयोग उक्तः । तदुक्तं शतुश्शत्याम्-
षण्मासध्यानयोगेन जायते गरुडोपमः ।
दृष्ट्या ते लोकं दृष्ट्यैव कुरुते वशम् ॥
दृष्ट्या संक्षोभयेन्नारीं दृष्ट्यैव हरते विशम् ।
दृष्ट्या चातुर्थिकादींश्च ज्वरान् नाशयते क्षणात् ॥
चन्द्रकान्तशिलामूर्ति चिन्तयित्वा विनाशयेत् ।
तापज्वरानशेषांश्च शीघ्रं तार्क्ष्य इवापरः ॥
गरुडध्यानयोगेन स्मरणान्नाशयेद्विषम् ॥ इति ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri